________________
आवश्यकनिर्युक्तरव
चूर्णिः ।
अस्वा. ध्यायिकनियुक्ति निगा.
१३३७. । १३३९
दिव्य, व्युग्रहः
पासणयमिच्छ' इत्यादेशलादि, अस्मिन
स्वाध्याय एवं स्वाध्यायिक, न स्वाध्यायिकमस्त्राध्यायिकं, तत्कारणमपि रुधिरायस्वाध्यायिकमुच्यते [तद् द्विविधं-] आत्मसमुत्थं-व्रणोद्भवं, परसमुत्थं-संयमघातकादि, तदेव पश्चविधमादौ दर्शयन् द्वारगाथा माहसंजमघाउवघाए सादिवे बुग्गहे य सारीरे । घोसणयमिच्छरणो कोई छलिओ पमाएणं ॥१३३७॥
संयमघातकं महिकादि, औत्पातिक पांशुपातादि, गन्धर्वनगरादि दिव्य कृतं सादिव्यं, व्युद्ग्रहः-मझामोऽसावपि अस्वाध्यायिकनिमित्तत्वात्तथोच्यते, शारीरं तिर्यगमनुष्यपुद्गलादि, अस्मिन् पश्चविधेऽस्वाध्यायिके स्वाध्यायं कुर्वतः आत्मसंयमविराधना, तब दृष्टान्तः 'घोसणयमिच्छ' इत्यादेर्गाथाशकलस्यार्थः कथानकादवसे यः ॥१३३७॥ पश्चार्धावयवार्थमाहमिच्छभयघोसण निवे हियसेसा ते उदंडिया रणा। एवं दुहओ दंडो सुरपच्छित्ते इह परे य॥१३३८॥
क्षितिप्रतिष्ठिते जितशत्रू राजा, तेन स्वदेशे घोषि (घोषावि )तं यथा-म्लेच्छो राजा आयाति, तद् ग्रामादीनि त्यक्त्या समासने दुर्गे स्थातव्यं, ये राज्ञो वचमा [ दुर्गे] स्थितास्ते न विनष्टाः, अन्ये म्लेच्छविलुप्ता राज्ञा हृतशेषा दण्डिताच, एवमस्वाध्याये स्वाध्यायिकं कुर्वत उभयोर्द( उभयतो दण्डः, 'सुर'त्ति देवतया छल्यते, 'पच्छित्ते 'त्ति प्रायश्चित्तं च प्राप्नोति 'इह 'त्ति इहलोके 'परे 'त्ति परलोके ज्ञानादि विफलं स्यात् ।। १३३८ ॥ दृष्टान्तोपनय:राया इह तित्थयरोजाणवया साह घोसणं। सुत्तं मेच्छो य असज्झाओ रयणधणाईच न ___ यथा घोषणं तथा सूत्रं, अस्वाध्याये स्वाध्यायप्रतिषेधकं, अस्वाध्यायो महिकादिः ॥ १३३९ ॥
॥१६३॥
Jain Education Inter!
For Private
Personel Use Only