________________
आवश्यकनियुक्तेरवचर्णिः।
| योगसनहे तितिक्षायां दृष्टान्त: नि०गा. १३०५१३०६
॥१४७॥
तथैव श्रावस्त्यां गता, तत्राऽजितसेन आचार्यः, कीर्तिमती महत्तरा, तस्याः पार्श्व सा प्रवजिता, यथैव धारिणी नवरं पुत्र| स्तया न त्यक्तः, क्षुल्लककुमार इति नाम कृतं, प्रव्रजितो यौवने उनिष्क्रमितुकामो मातृमहत्तराचार्योपाध्यायवचोभिरष्टा- चत्वारिंशद्वर्षाणि स्थितः, पश्चाद्विसृष्टो रत्नकम्बलनाममुद्राधादाय पुण्डरीकान्ते समागात् । रात्रौ नाटथे प्रभाते किश्चिनिद्राप्रमादपरां नर्तकीमुद्दिश्य धोरिकिन्या(नक्या) पठितं 'सुटु' इत्यादि श्रुत्वा क्षुल्लककुमारो रत्नकम्बलं, यशोभद्रो युवराजः कुण्डलं, श्रीकान्ता सार्थपा हार, जयसन्धिरमात्यः कटं, कर्णपालो मिण्ठोऽड्डशं ददुः, सर्वाणि लक्षमूल्यानि, आहूय प्रातः पृच्छा, सद्भावकथने नृपः प्रीतः, सर्वे क्षुल्लककुमारानुलग्नाः प्रबजिताः, सर्वैरपि लोमस्त्यक्तः ।। १३०२-१३०४ ॥ इंदपुर इंददत्ते बावीस सुया सुरिंददत्ते य । महुराए जियसत्तू सयंवरो निव्वुईए उ ॥ १३०५ ॥ अग्गियए पचयए बहुली तह सागरे य बोद्धवे । एगदिवसेण जाया तत्थेव सुरिंददत्ते य ॥१३०६॥
इन्द्रपुरे इन्द्रदत्तो राजा तस्येष्टदेवीनां द्वाविंशतिः पुत्राः, एकाऽमात्यसुता तदुद्भवः सुरेन्द्रदत्तः, तदिनजाताः चत्वारो | दासाः अग्निकः पर्वतको बहुलिकः सागरकः । इतश्च मथुरायां जितशत्रू राजा, तस्य सुता निवृत्तिर्नाम राज्यप्रदा, तदर्थ स्वयंवरमहे इन्द्रदत्तः ससुतो गतः । ज्येष्ठपुत्रः श्रीमाली तत्प्रमुखा द्वाविंशतिरपि राधावेधेऽसमर्याः, तेषु चतुर्पु दासेषु विघ्नं कुर्वत्स्वन्यस्मिंश्चासिव्यग्रकरनरद्वये भयं कुर्वति, अष्टचक्राणां छिद्राणि ज्ञात्वा अन्यत्र मनोऽकुर्वता सुरेन्द्रदत्तेन राधावामाक्षिवेधश्चक्रे, एषा द्रव्यतितिक्षा, यथा कुमारस्तथा साधुः दासाश्चत्वारः कषायाः, कुमारा द्वाविंशतिः परीषहा नरौ द्वौ रागद्वेषौ,
१४७॥
Jain Education Inter
For Private & Personel Use Only
A
w.jainelibrary.org