________________
आवश्यक
निर्युक्तेरवचूर्णिः ।
।। १४५ ।।
Jain Education Int
पइठाणे नागवसू नागसिरी नागदत्त पबज्जा । एगविहा सट्टाणे देवय साहू य बिल्लागरे ॥१२९९ ॥ प्रतिष्ठानपुरे नागवसुः श्रेष्ठी, नागश्रीः मार्या, तयोः पुत्रो नागदत्तो निर्विण्ण कामभोगः प्रव्रजितः स जिनकल्पप्रतिमाधराणां पूजासत्कारं दृष्ट्वा आचार्यैवर्यमाणोऽपि जिनकल्पं प्रतिपद्य एकत्र व्यन्तरगृहे प्रतिमया तस्थौ, देवतया सम्यग्दृष्ट्या मा विनश्यत्विति स्त्रीरूपेण यक्षपूजाच्छद्मना मोदका आनीय दत्ताः, स तान् भक्षयित्वा रात्रौ प्रतिमां स्थितः अतिसारो जातः, देवतया आचार्याणामुक्तं स शैक्षोऽमुकत्र, साधवः प्रेषिता आनीतः, देवतयोक्तं बिल्वगिरं ( बीजपूरगर्भ ) दीयतां, दत्ते स्थितं पोट्टं शिक्षितश्च नैवं कार्य ६ ।। १२९९ ।।
कोलंबिय जियसेणे धम्मवसू धम्मघोस धम्मजसे । विगयभया विणयवई इड्डिविभूसा य परिकम्मे ॥१३०० कौशाम्ब्यामजितसेनो राजा, धारिणी देवी, तत्र धर्मवसुगुरोः शिष्यों धर्म्मघोषधर्मयशसौ, विगतभया महत्तरा विनयवती तस्याः शिष्यिणी, तया भक्तं प्रत्याख्यातं सङ्खेन महता ऋद्धिसत्कारेण निर्यामिता मृता, तौ द्वावपि शिष्यौ परिकर्म कुर्वतः ।। १३०० ॥ इतथउज्जेणिवंतिवद्धणपालगसुयरट्ठवद्धणे चेव । धारिय(णि) अवंति सेणे मणिप्पभा वच्छगातीरे ॥। १३०१ ॥
उञ्जयिन्यां चण्डप्रद्योतस्य द्वौ भ्रातरौ पालको गोपालकच, गोपालकः प्रव्रजितः, पालकस्य द्वौ पुत्रौ अवन्तिवर्द्धनो राष्ट्रवर्द्धनश्च तयो राजयुवराजपदवीं दवा पालकः प्रव्रजितः, राष्ट्रवर्द्धनस्य भार्या धारिणी, तस्याः पुत्रोऽवन्तिसेनः,
१३
For Private & Personal Use Only
योगसम निष्प्रति
कर्मतायां
अज्ञातके
च दृष्टान्ताः नि०गा०
१२९९१३०१
।। १४५ ।।
www.jainelibrary.org