________________
श्रीधीरसुन्दरसू० आव० अवणिः ॥५०॥
____ कुतो मे वर्णयितुं शक्तिखधेः सर्वप्रकृतीः १, तथाऽपि विनेयानुग्रहार्थं चतुर्दशविधनिक्षेपमवधेः सम्बन्धिन आमषिध्यादिलक्षणां ऋद्धि प्राप्ताः ऋद्धिप्राप्तांश्च वक्ष्ये, चः सयुच्चये ॥ तत्र चतुर्दशविधनिक्षेपप्रतिपादयिषुस्तद् द्वारगाथाद्वयमाह
ओही खित्तपरिमाणे, संठाणे आणुगामिए । अवट्ठिए चले तिव्वमन्द पडिवाउप्पयाइ ॥२७॥
नाण दंसण विभंगे देसे खित्ते गई इअ ।
___ इड्ढीपत्ताणुओगे य, एमेआ पडिवत्तिओ ॥२८॥ इहावध्यादीनि गत्यन्तादीनि चतुर्दशद्वाराणि, ऋद्धिस्तु चशब्दसमुचित्वात् पञ्चदशं, अवधेर्नामादिभेदभिन्नस्य स्वरूपमभिधातव्यं १, तथा जघन्यमध्यमोत्कृष्टभेदभिन्नक्षेत्रपरिमाणविषयोऽवधिवक्तव्यः २, एवं संस्थानविषयः ३, अथवार्थवशाद्विभक्तिपरिणामोऽवधिशब्दश्चद्विरावय॑ते, ततश्चावधेर्जघन्यादिभेदभिन्नक्षेत्रप्रमाणं वक्तव्यं, तथा संस्थानं ४, अनुगमनशील आनुगामिकोऽवधिः सप्रतिपक्षो वक्तव्यः, एकारान्तः शब्दः प्रथमान्त एव यथा 'कयरे आगाच्छइ' इत्यादिषु द्रव्य दिषु कियन्त कालमप्रतिपतितः सन्नुरुपयोगतो लब्धितश्चावतिष्ठते इत्यवस्थितोऽवधिः ५, बर्द्धमानतया क्षीयमानतया च चलः अनवस्थितः ६, तीव्रमन्दावित्येकं द्वारं तीवो मन्दो मध्यमश्चवधिर्वक्तव्यः इति सर्वत्र द्रष्टव्यं, तत्र |
गाथा-२७-२८
॥५०॥
Jain Education Inted
For Private & Personal use only
jainelibrary.org