________________
श्रीधीरसुन्दरसू० आव० अवणिः
॥२१३॥
पुल्विं कयाइ पाहुणा सुरेहि रक्खाइ काउगाइं च २६ ।
तह वत्थगन्धमल्लालंकारा केसभूसाई २७-२८-२९-३० ॥२१॥ पूर्व प्रभोः सुरैः कृतानि कौतुकानि-रक्षादीनि, तथा वस्त्र-चीनांशुकादि गन्धः कुष्ठपुटादि माल्यं-पुष्पदाम अलङ्कारः केशभूषादिः॥२१॥
तं दह्रण पवत्तोऽलंकारेउं जणाऽवि सेसोऽवि ।
विहिणा चूलाकम्मं बालाणं चोलया नाम ३१ ॥२२॥ तं वा अलङ्कार भगवतो देवैः तं दृष्ट्वा अवशेषोऽपि जनो स्वं स्वमलकारं कत्तुं प्रवृत्तः, विधिना शुभनक्षत्रमुहूर्तादौ बालानां चूडाकर्म तदपि तदा प्रवृत्ता । २२॥
उवणयणं तु कलाणं गुरुमूले साहुणा तओ धम्मं ।
घित्तुं हवंति सइढा केई दिक्खं पवज्जति ३२ ॥२३॥ उपनयनं-तेषामेव बालानां कलाग्रहणाय गुरोर्मुले-समीपे नयनं, धर्मश्रावणाय वा साधोः सकाशं नयनमुपनपनं, तस्माच्च साधोधर्म गृहीत्वा केचित् श्राद्धाः स्युरपरे लघुकर्माणो दीधा प्रपद्यन्ते, एतच्चोभयमपि तदा प्रवृत्तम् ॥२३॥
गाथा-१९८ -९९.२००
॥२१३॥
Jain Education international
For Privale & Personal use only
www.jainelibrary.org