________________
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥१५३॥
विश्राम्य क्षण निग्रन्थः द्वाभ्यां समयाभ्यां केवले उत्पत्स्यमाने प्रथमे निद्रां प्रचलां नाम्नश्चमाः प्रकृतीः देवगत्यानुपूज्यों बैक्रियनाम प्रथमवर्जानि पञ्च संहननानि आत्मवर्जानि पञ्च संस्थानानि, यदात्मानः यत्संस्थानं तन्मुक्त्वेत्यर्थः, आहारकनाम तीर्थकरनाम च, चेत्तीर्थकरः क्षपकस्तदाऽऽहारकमेव, चरमे-द्वितीये समये ज्ञानावरण पञ्चविध दर्शनं चतुर्विध पञ्चविधमन्तराय क्षपयित्वा केवली भवति, एतच्च मतमसमीचीनं, चूमि कृतो भाष्यकृतः सर्वेषाञ्च कर्मग्रन्थकाराणामसम्मतत्वात् , केवलं वृत्तिकृता केनाप्यभिप्रायेण लिखितमिति, मूतोऽप्येता गाथाः प्रचाहपतिताः नियुक्तिकारकृतास्त्वेता न ॥१२४-१२५-१२६।। उत्पन्न केवलज्ञानः सर्ववस्तु जानातीन्याह
संभिषणं पासंतो लोगमलोगं च सव्वओ सव्वं ।
तं नत्थि जं न पासइ भूयं भव्वं भविस्सं च ॥१२७॥ सम्-एकोभावेन भिन्न सम्भिन्नं, यथा बहिस्तथा मध्येऽपीत्यर्थः, पश्यन् लोकमलोकञ्च सर्वतः-सर्वासु दिक्षु सर्व-निरवशेष, अमुमेवार्थ स्पष्टयन्नाह-तन्नास्ति किमपि यन्न पश्यति, भृत-अतीत, भव्यं-वर्तमान, भविष्यच्चभावि, चः-समुच्चये ॥१२७।। इत्थमुपोद्घातनिर्युक्तो प्रस्तुतायां प्रसङ्गता यदुक्तं -'तपोनियमज्ञानवृक्षमारूदः केवली'त्यसो
गाथा-१२४-२
२६-२
॥१५३॥
Sain Education International
For Private & Personal use only
www.jainelibrary.org