SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव अवचर्णिः IM ॥१५॥ रूपो नियमितशरीरविशेषः म्यात् साऽनुपूर्वी, जातिनाम एकेन्द्रियादिनाम, यावच्चतुरिन्द्रियाः, चः समुच्चये, आता-आतपनाम यदुदयादातपवान् स्यात् , एवमुद्योतं, स्थावराः पृथिव्यादयस्तन्नाम, सूक्ष्म-सूक्ष्मनाम, चौ प्राग्वत्, साधारणमिति साधारणनाम अनन्तवनस्पतिनामेत्यर्थः, अपर्याप्तकमित्यपर्याप्तकनाम, निद्रानिद्रा च प्रचलाप्रचलां च स्त्याना-चैतन्यऋद्धिर्यस्यां सा स्त्यानद्धिः-पञ्चमीनिद्रा तां, इह भाष्यकर्मग्रन्थादौ अत्रान्तरे षोडशैव प्रकृतयः क्षप्यमाणत्वेनाभ्युपगम्यन्ते, न मप्तदश, यतस्तन्मते, अपर्याप्तकर्म इह न क्षिप्यते, किन्तु अयोगिनि द्विसप्ततिकर्मप्रकृतिकदम्बकमध्ये तत् क्षपयति, तस्मान्मतान्तरत्वेनेह सप्तदशानामुपन्यासो न विरुध्यते, ततश्चापर्याप्तवर्जपोडशप्रकृतीः क्षपयित्वा तदनन्तर' यदष्टानां कपायाणां शेष तत् क्षपयति, सर्वमिदमन्तर्मुहूर्तेन, ततो नपुसकवेदं, ततः स्त्रीवेदं. ततो हास्यषट्कं, इतः पुरुषवेदस्य खण्डवयं कृत्वा खण्डद्वयं युगपत्क्षपयति, तृतीयखण्ड तु सज्वलनक्रोधे क्षिपति, पुरुपे प्रतिपत्र्ययं क्रमः, नपुसकादौ प्रतिपत्तय क्रमः, नपुंसकादौ प्रतिपत्तयुपशमश्रेणिन्यायो वाच्यः, ततः क्रोधादीन् चतुरः सज्वलनान् प्रत्येकमन्तर्मुहूर्त्तमात्रेण क्षपयति क्षपण', चैषां खण्डत्रयादिकरणक्रमेण पुरुषवेदवद्वाच्यं, तथाहि-क्रोधसत्क तृतीयखण्ड माने प्रक्षिपति, मानसत्क मायायां, मायासत्कं लोभे, क्षपणकालश्च प्रत्येकमन्तर्मुहूर्तमानः सर्वत्र ज्ञेयः, श्रेणिरप्यन्तर्मुहूर्तमानैव, एकस्मिन्नप्यन्तर्मुहूर्ते लघुतराणामन्तर्मुहूर्तनामसङ्ख्येयानां भावात् , लोभस्य तु तृतीयखण्डं सङ्ख्येयानि खण्डानि करोति, तानि च खण्डानि पृथक पृथक् कालभेदेन क्षपयति, तेषामपि च सङ्ख्येयतमं चरमखण्ड असख्येयानि खण्डानि करोति, तानि तु समये समये गाथा-१२२-२ ॥१५॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy