SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ | गाथा-१०६ श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१३३॥ आयुष्कस्य तूत्कृष्टा वा मध्यमा वा, नतु जघन्या, मोहरहितानां तु शेषप्रकृतीनामन्यतमा या उस्कृष्टस्थितिः सद्भावे मोहस्य शेषाणां चोत्कृष्टा वा, मध्यमा वा, नतु जघन्या, इति प्रासङ्गिकम् ॥१०५।। अथ लाभकारणमाह सत्ताहं पयडीणं अभितरओ उ कोडिकोडीणं । काऊण सागराणं जइ लहइ चउण्हमण्णयरं ॥१०६॥ सप्तानां आयुर्वर्जकर्मप्रकृतीनां या पर्यन्तवतिनीस्थितिस्तामङ्गीकृत्य सागगेपमाणां काटाकाटी तस्या अभ्यन्तर एव-मध्य एव, तुरेवकारार्थः, कृत्वा, आत्मानमिति गम्यते, यदि लभते चतुर्णा सामायिकानामन्यतरत् , तत एव नान्यथा इयमत्र भावना आयुर्वज सप्तकर्मप्रकृतीनां यदा पर्यन्तवत्तिनी स्थितिः पल्यापमासख्येयभागहीना सागरोपमकोटिप्रमाणाऽवतिष्ठते तदा घनगगद्वेषपरिणामरूपोऽत्यन्तदुभेददारुग्रन्थिवत्कग्रन्थिर्भवति, तस्मिश्च कर्मग्रन्थावपूर्वकरणनामविशेषविशुद्धिकठारधारया भिन्ने परमपदहेतोः सम्यक्त्वस्य लाभो जायते, नान्यथा, अथ सम्यक्त्वादिगुणावाप्तिविधिरुच्यते-जीवा द्विधा भव्या अभव्याश्च, तत्र भव्यानां करणत्रयं स्यात् , करणं नाम सम्यक्त्वाद्यनुगुणो विशुद्धः परिणामविशेषः, तथाहि-यथाप्रवृत्तकरणं अपूर्वकरण' अनिवृत्तिकरणं च, तत्र यथैव अनादिसंमिद्वेनैव प्रकारेण प्रवृत्तं यथाप्रवृत्त, क्रियते कर्मक्षपणमनेनेति करणं, यथाप्रवृत्तं च तत्करणं चेति समासः, अनादिकालात्कर्मक्षपणाय प्रवृत्तो गिरिसरिदुपलघोलनान्यायेन कल्पोऽध्यवसायविशेषो यथाप्रवृत्तकरणं, ॥१३३॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy