________________
श्रीधीरसुन्दरम् ० आव० अवचूर्णिः
॥११३॥
Jain Education International
प्रमीयतेऽनेनेति प्रमाणं तच्च प्रमेयभेदादेव चतू रूप द्रव्यप्रमाणादिभेदात्, तत्र सामायिकं भावात्मकत्वाद्भावप्रमाणविषयं तच्च भावप्रमाणं त्रिधा - गुणनयसंख्याभेदात्, गुणप्रमाण द्विधा - जीवगुणप्रमाणमजीवगुणप्रमाण' च, तत्र जीवादपृथग्भूतत्वात् सामायिकस्य जीवगुणप्रमाणे समवतारः, जीवगुणप्रमाणमपि त्रिधा - ज्ञानदर्शनचारित्रभेदात् तत्र बोधात्मकत्वात् सामायिकस्य ज्ञानगुणप्रमाणे समवतारः, ज्ञानगुणप्रमाणमपि चतुर्द्धा तद्यथाप्रत्यक्षमनुमानमुपमानमागमः, तत्र सामायिकस्य प्रायः परोपदेशसव्यपेक्षत्वादागमप्रमाणे समवतारः, आगमोऽपि द्विधा लौकिक लोकोत्तरभेदात् तत्रेद' सामायिक सर्वज्ञप्रणीतत्वाल्लोकोत्तरागमे समवतरति, ननु लोकोत्तरागमाऽपि सूत्रार्थेभयरूपत्वात्त्रिविधः, तत इद क्वान्तर्भवति ?, उच्यते, सामायिकस्य सूत्रार्थेभयरूपत्वात्रिविधेऽपि, ननु सोsपि त्रिधा आत्मागमः अनन्तरागमः परम्परागमश्च ततः क्वेद समवतरति १, उच्यते, इद सूत्रतो गौतमादीनामात्मागमः, तच्छिष्याणां जम्बूस्वाम्यादीनामनन्तरागमः प्रतिशिष्याणां तु प्रभवादीनां परंपरागमः, तथाऽर्थतोतामात्मागमः, गणधराणामनन्तरागमः तच्छिष्याणां परम्परागमः एवं सूत्रतोऽर्थतश्च त्रिविधे प्रमाणेऽन्तर्भवति, नयप्रमाणे तु मूढनयत्यात्तस्य नाघुनावतारः, वक्ष्यति च - 'मूढ नइअ' तु सुअ' मित्यादि,
अथ संख्याप्रमाण' तत्र संख्या - नामस्थापनाद्रव्यक्षेत्र का लौपम्यपरिमाणभाव भेदादष्टधा, यथानुयोगद्वारेषु तथा वक्तव्या, तत्रोत्कालिकादिश्रुतप्रमाण संख्यायां समवतारः, तत्र सूत्रतः सामायिक परिमितपरिमाणं, अर्थतोऽनन्तपवादपरिमितपरिमाण, अथ वक्तव्यता, सा च त्रिधा स्वसमयवक्तव्यता परसमयवक्तव्यता उभयसमयवक्तव्यता
For Private & Personal Use Only
गाथा - ७९
॥११३॥
www.jainelibrary.org