SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ACCORRECCAMSAROOMCCCCCX वत्थुति । पत्तेयं पत्तेयं तेण नमोक्कारमिच्छति ॥२॥" अत्र 'एगमिहेग'मित्यादि, एक-नमस्कारवन्तमिह-जीवलोके एक नमस्कारमिच्छति, बहून् नमस्कारवतो जीवान् बहून्नमस्कारानिति, गतं किमिति द्वारं । सम्प्रति कस्येति द्वारम् , तत्र प्राक्प्रतिपन्नप्रतिपद्यमानकाङ्गीकरणतः प्ररूपणामाह-'पुवपडिवन्नतो उ जीवाण'मित्यादि, इह यदा पूर्वप्रतिपन्न एवालाधिक्रियते तदा व्यवहारनयमतमाश्रित्य जीवानां विज्ञेयो, बहुजीवस्वामिक इत्यर्थः, प्रतिपद्यमानं तु प्रतीत्य जीवस्य जीवानां 8 वा नमस्कारः, यदा एको जीवो नमस्कारं प्रतिपद्यते तदा जीवस्येति, यदातु बहवो जीवास्तं प्रतिपद्यन्ते तदा जीवानामिति | 8 अक्षरगमनिका, भावार्थस्त्वयम्-सङ्ग्रहनयस्य पूर्वप्रतिपन्नचिन्तायां प्रतिपद्यमानकचिन्तायां च एकस्वामिक एव नमस्कारो, जातिमात्राभ्युपगमात् , शेषनयानां तु व्यवहारादीनां प्रतिपद्यमानको नमस्कारस्यैको वा जीवोऽनेके वा, पूर्वप्रतिपन्नास्तु नियमेनानेके, तेषां गतिचतुष्टयेऽपि मार्गणायामसङ्ख्येयानां सदैव लाभात् , आह च-'पडिवजमाणतो पुण एगोऽणेगे व संगहं मोत्तुं । इट्ठो सेसनयाणं पडिवन्ना नियमतोऽणेगा॥१॥" इह ऋजुसूत्रादयोऽविशुद्धाः प्रतिपत्तव्याः, अनेकाभ्युपमात्, अन्यथा परकीयानभ्युपगमेनानेकाभ्युपगमानुपपत्तेः, अथ नमस्करणं नमस्कारः, नमस्करणक्रिया च सकर्मिका, ततः संशयः-किमसौ नमस्कारो नमस्कृतिक्रियानिष्पादकस्य कर्तुः उत नमस्कार्यस्य पूज्यस्य ?, उच्यते, अत्र नयैर्विचारः, तत्र नैगमव्यवहारनयमतं नमस्कार्यस्य नमस्कारो,न नमस्कर्तुः, तस्य तदुपभोगाभावात् , तथाहि-यद्यपि नाम नमस्कारक्रिहै यानिष्पादकः कर्ता तथापि नासौ तं नमस्कारमुपभुते, किन्तु नमस्कार्य एव, ततो यथा भिक्षानिष्पादकोऽपि दाता न तामुपभुङ्क्ते इति तस्य न भिक्षा, किन्तु भिक्षोः, एवं नमस्कारोऽपि नमस्कार्यस्यैव, नतु नमस्कर्तुरिति, नमस्कार्य तु वस्तु HOROROGASAAG Jain Educationa l For Private & Personal Use Only M alinelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy