________________
Jain Education
णामुत्पन्न इति ?, नैष दोषः, तस्य सर्वसङ्ग्राहिनैगम एवान्तर्भावविवक्षणात् । 'जइ कत्तो 'न्ति यदि उत्पन्नस्तर्हि कुत इत्याह- 'तिविहसामित्ता' इति, त्रिविधं च तत् स्वामित्वं च त्रिविधस्वामित्वं तस्मात् त्रिविधस्वामित्वात्, त्रिविधस्वामिभावात् त्रिविधकारणादित्यर्थः, आह च- एवमप्येकत्रैकदा परस्परविरुद्धधर्माध्यासदोषस्तदवस्थ एव, तदयुक्तम्, अशेषस्यापि वस्तुनस्तत्त्वतः सामान्यविशेषात्मकत्वाभ्युपगमे नमस्कारस्यापि सामान्यविशेषात्मकत्वात्, तत्र च सामान्यधर्मैः सत्त्वादिभिरनुत्पादात् विशेषधम्मैंरानुपूर्व्यादिभिरुत्पादादिति ॥ साप्रतं यदुक्तं 'त्रिविधस्वामित्वा' दिति तत् त्रिविधस्वामित्वमुपदर्शयतिसमुट्ठाणवायणालद्धिओ य पढमे नयत्तिए तिविहं । उज्जुसुअ पढमवज्जं सेसनया लद्धिमिच्छति ॥ ८८९ ॥ समुत्थानतो वाचनातो लब्धितश्च नमस्कारः समुत्पद्यते इति वाक्यशेषः, तत्र सम्यक् सङ्गतं प्रशस्तं वा उत्थानं यस्मात् तत् समुत्थानं, किं तदिति चेत्, उच्यते, अन्यस्याश्रुतत्वात् तदाधारतया प्रत्यासन्नत्वात् शरीरमत्र परिगृह्यते, शरीरं हि नमस्कारकारणं, तद्भावे भावसम्भवात्, ततः समुत्थानतः, तथा वाचनं वाचना-परतः श्रवणमधिगम उपदेश इत्यनर्थान्तरं सा च नमस्कारकारणं, तद्भावभावित्वादेव च ततो वाचनातः, तथा लब्धिः - तदावरणकर्मक्षयोपशमलक्षणा साऽपि कारणं तद्भावभावित्वादेव, ततो लब्धितः चशब्दः पदत्रयान्तप्रयुक्तो नयापेक्षया त्रयाणामपि प्राधान्यख्यापनार्थः, अत एवाह - 'पढमे नयत्तिए तिविहं' प्रथमे नयत्रिके त्रिविधं, अशुद्धनैगमसङ्ग्रहव्यवहाराख्ये विचार्ये समुत्थानादिकं त्रिविधमपि नमस्कारकारणं, आह-प्रथमे नयत्रिकेऽशुद्धनैगमसङ्ग्रहौ कथं त्रिविधं कारणमिच्छतः ?, तयोः सामान्यमात्रावलम्बित्वात्, नैष दोषः, अशुद्धनैगमसङ्ग्रहयोर्नयत्रिकग्रहणेनाग्रहणात्, तन्मतेन नमस्कारस्योत्पत्तेरेवाभावात्,
tional
For Private & Personal Use Only
www.jainelibrary.org