________________
Jain Educati
अभिसंभूया सासत्ति संभवो तेण वुञ्चई भयवं ।
अभिसम्भूतानि - सम्यक् भवन्ति स्म सस्यानि तस्मिन् गर्भजाते तेन कारणेन भगवान् सम्भव इत्युच्यते, 'पुन्नाम्नी' त्यधिकरणे घप्रत्ययः, तथा च वृद्धसम्प्रदायः - गब्भगए जेण अहिगा सरसनिष्पत्ती जाया तेण संभवो इति ॥ तथा अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादमायाह
अभिनंदेइ अभिक्खं सक्को अभिनंदणो तेण ॥ १०९३ ॥
शक्रो गर्भादारभ्याभिक्षणं-प्रतिक्षणं अभिनन्दितवानिति अभिनन्दनः, 'कृद्बहुल मिति वचनात् कर्म्मण्यनट्, तथा च वृद्धसम्प्रदायः - गन्भप्पभिई अभिक्खणं सकेण अभिनंदियाइतो तेण से अभिनंदणोत्ति नामं कथं । इदानीं सुमतिः, तस्य सामान्याभिधाननिबन्धनमिदम् - शोभना मतिरस्येति सुमतिः, सर्व एव च भगवंतः सुमतय इति विशेषनिबन्धनप्रतिपादनार्थमाह
arit सवत्थ विणच्छिएस सुमइति तेण सुमतिजिणो ।
येन कारणेन गर्भगते भगवति सर्वेषु विनिश्चयेषु कर्त्तव्येषु सुमतिः- अतीव मतिः सम्पन्ना जाता तेन कारणेन भगवान् सुमतिजिनः, जननीसुमतिहेतुत्वात् सुमतिरिति भावः, शोभना मतिरस्मादभूदिति व्युत्पत्तेः तथा च वृद्धसम्प्रदायः| जणणी गब्भगए सबत्थ विणिच्छएसु अतीव मइसम्पन्ना जाया, दोन्हं सवत्तीणं मयपइयाणं ववहारो छिन्नो, जहा मम पुत्तो भविस्सइ, सो जोबणत्थो एयस्स असोगवरपायवस्स अहे ववहारं तुन्भं छिंदिहिति, ताव एगयाओ भवह, इयरी भणइ
tional
For Private & Personal Use Only
jainelibrary.org