________________
।
EASEARSHASSASS554555
सियनिहुत्तिवित्थरत्यो गतो एवंति, सूत्रस्पर्शकनियुक्तिविस्तरार्थो गत एवमुक्तेनेति ॥ सम्प्रति सूत्र एवातीतादित्रिविधकालग्रहणमुक्तमिति दर्शयन्नाह
सामाइयं करेमि पञ्चक्खामी पडिकमामित्ति । पचुप्पन्नमणागयअईअकालाण गहणं तु ॥१०५८॥ __ 'सामायिकं करोमि', तथा 'प्रत्याख्यामि सावद्ययोग'मिति, तथा 'प्रतिक्रमामि प्राकृतात् सावधयोगात्', इदं हि यथासङ्ख्यमेव प्रत्युत्पन्नानागतातीतकालानां ग्रहणमिति, उक्तं च-"अतीतं निंदइ पडुप्पन्नं संवरेइ अणागयं पञ्चक्खाति", इति ॥ सम्प्रति तस्य भदन्त! प्रतिक्रमामीत्येतद् व्याख्यायते-'तस्ये'त्यधिकृतो योगः सम्बध्यते, ननु च प्रतिक्रमामीत्यस्याः क्रियायाः सोऽधिकृतो योगः कर्म, कर्माणि च द्वितीया विभक्तिरतस्तमित्यभिधेये किमर्थ तस्येत्यभिधीयते', उच्यते, विशेषख्यापनार्थ, तथाहि-'तस्ये त्यत्रावयवावयविसम्बन्धे षष्ठी, ततोऽयमर्थः-योऽसौ योगस्त्रिकालविषयः तस्यातीतं सावद्यमंशं प्रतिक्रमामि, न शेषं वर्तमानमनागतं वा, केचित् पुनरविभागज्ञा अविशिष्टमेव सामान्येन योग सम्बन्धयति, तन्न युक्त, अविशिष्टस्य त्रिकालविषयस्य प्रतिक्रमणासम्भवात् , अतीतविषयस्यैव प्रतिक्रमणस्य तत्र तत्र सूत्रेऽभिधानात् , अथ मन्येथाः-अविशिष्टमपि योगं सम्बध्य पुनर्विशेष्येऽवस्थापनीयस्तच्छब्दस्ततोन कश्चिद्दोषः, तदप्यसमीचीनं, एवं सति प्रतिपत्तिगुरुताप्रसक्तेः, पूर्व अविशेषेण योगस्य सम्बन्धः, तदनन्तरं पुनरेतच्छब्दस्य विशेषेऽवस्थापनमिति न
ऋज्वी प्रतिपत्तिः, यद्येवं तर्हि 'अतीतं भंते ! पडिक्कमामि' इत्येतावदेव सुखप्रतिपत्तये कस्मान्न कृतं ?, उच्यते, पुनहरुक्तत्वदोषप्रसङ्गात् , तथाहि-प्रतिक्रमणमेतत् प्रायश्चित्तमध्ये पठितं, तच्च प्रायश्चित्तमासेविते भवति, ततोऽर्थादतीतविष
SHERATOCHIGI
मा.सू. ९८ Jain Education
a litional
For Private & Personal Use Only
Alainelibrary.org