SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रीआव० मलयगि० वृत्तौ सूत्रस्पर्शिका ॥५७६ ॥ Jain Education In 200 गुणग्रहण एव तस्यापि गृहीतत्वात्, किंतु जात्यन्तरात्मकमन्यत्वानन्यत्वं घटते, आत्मैव कारकः आत्मैव सामायिकं आत्मैव करणमिति प्रसिद्धिः - प्रत्यवस्थानं ॥ संप्रति परिणामपक्षे सत्यप्येकत्वेऽप्यनेकत्वेऽपि चाविरोधेन कर्तृकर्म्मकरणव्यवस्था घटते इति दर्शयन्नाह - एगत्ते जह मुट्ठि करेइ अत्यंतरे घडाईणि । दवत्थंतरभावे गुणस्स किं केण सम्बद्धं ? ॥ १०४९ ॥ एकत्वे-कर्तृकरणानामभेदे दृष्टः कर्तृकरणभावो, यथा मुष्टिं करोति, अत्र हि देवदत्तः कर्त्ता, तस्य हस्तः कर्म, तस्यैव प्रयत्नविशेषः करणमिति । तथाऽर्थान्तरे-कर्तृकरणानां भेदे दृष्टः कर्तृकर्मकरणभावो, यथा घटादीनि करोति, अत्र हि कुलालः कर्ता घटादिकं कर्म्म दण्डादिकं करणमिति, इह सामायिकमात्मनो गुणो वर्त्तते स च गुणिनः कथञ्चिदेव भिन्नः, अत्रैव विपक्षे बाधामुपदर्शयति-द्रव्यात् सकाशाद् गुणिन इत्यर्थः, एकान्तेनैवार्थान्तरभावे-भेदे सति गुणस्य किं केन सम्बद्धं १, न किञ्चित् केनचित्सम्बद्धमिति भावः तथा च सति ज्ञानादीनामपि गुणत्वात् तेषामपि चात्मादिगुणिभ्य एकान्तभिन्नत्वात् संवेदनाभावतः सर्वव्यवस्थानुपपत्तिः, एवमेकान्तेनानर्थान्तरभावेऽपि दोषा अभ्यूह्या इति, गुणगुणिनोरर्थान्तरत्वात् सर्वं सुस्थमिति । तदेवमुक्ते कण्ठतश्चालनाप्रत्यवस्थाने, सम्प्रति 'सर्वं सावधं योग' मित्यत्र यः सर्वशब्दस्तन्निरूपणायाह नामंठवणादविए आएसे निरवसेसए चेव । तह सबधत्तसवं च भावसवं च सत्तमयं ॥ १०५० ॥ स्त्रियते इति सर्वः, तस्य सप्तधा निक्षेपस्तद्यथा - नाम सर्वं स्थापनासर्व द्रव्यसर्व आदेशसर्वं निरवशेषसर्वं सर्वधत्तसर्वं For Private & Personal Use Only कृतादी चालनात्यवस्थाने ॥५७६॥ helibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy