________________
B गुरुशिष्ययोः सामाणिजाणणं च आयरिए । सातत् द्वारं व्याचिख्यासुराहो न
दृष्टिवादे-भूतवादे बोद्धव्योऽभिव्याहारः, एतदुक्तं भवति-शिष्यवचनानन्तरमाचार्यवचनमिदम्-उद्दिशामि सूत्रतोऽर्थतस्तदुभयतो द्रव्यगुणपर्यायैरनन्तगमसहितैरिति, एवं गुरुणा समादिष्टेऽभिव्याहारे शिष्याभिव्याहारः-शिष्यो ब्रवीति-उद्दिष्टमिदं मम, इच्छाम्यनुशासनं क्रियमाणं पूज्यैरिति, एवमभिव्याहारद्वारमष्टमं नीतिविशेषे नये इति ॥ व्याख्याता प्रतिद्वारगाथा, साम्प्रतमधिकृतमूलगाथायामेव करणं कतिविधमित्येतत् द्वारं व्याचिख्यासुराहउद्देससमुद्देसो वायणमणुजाणणं च आयरिए । सीसंमि उद्दिसिजंतमाइ एअं तुजं कइहा ॥ १८३ ॥(भा.)
गुरुशिष्ययोः सामायिकक्रियाव्यापारणं करणं, तच्चतुर्द्धा, तद्यथा-उद्देसकरणं समुद्देसकरणं वाचनाकरणमनुज्ञाकरणं च, छन्दोभङ्गभयादिह वाचनाकरणमेवमुपन्यस्तं, यावता तत्त्वतः अमुना क्रमेण द्रष्टव्यं-उद्देशो वाचना समुद्देशोऽनुज्ञा
चेति गुरोापारः, 'आयरिए'त्ति गुराविदं करणं, गुरुविषयमित्यर्थः, 'सीसंमि उद्दिसिजंतमादि' शिष्ये-शिष्यविषयं | उद्दिश्यमानकरणं वाच्यमानकरणं समुद्दिश्यमानकरणमनुज्ञायमानकरणं चेति, 'एयं तुजं कइह'त्ति एतदेव चतुर्विधं तत् यदुक्तं कतिविधमिति, आह-पूर्वमनेकविधं नामादिकरणमभिहितमेव इह पुनः किमिति प्रश्नः?, उच्यते, तत् पूर्वगृहीतस्य करणमनेकविधमुक्तं, इदं पुनरस्मिन् गुरुशिष्यदानग्रहणकाले चतुर्विधं करणमिति, पूर्व वा करणमविशेषेणोक्तं, इह तु | गुरुशिष्यक्रियाविशेषाद्विशेषितमिति न पुनरुक्तता, अथवा अयमेव करणस्यावसरः, पूर्वत्र पुनरनेकान्तद्योतनार्थ विन्यासः कृत इति 'विचित्रा सूत्रस्य कृतिरिति, कृतं विस्तरेण ॥ द्वारम् ॥ सम्प्रति कथमिति द्वारं विवरीषुराह
कह सामाइयलंभो ? तस्सबविघाई देसवाघाई । देसविघाईफड्डग अणंतवुड्डीविसुद्धस्स ॥ १०४१॥
JainEducation
For Private
Personal use only