________________
आ. सू. ९६
Jain Education
रिणामोपेतत्वात् असौ यतिरेव, शुद्धिश्चास्य यावत्सूत्र मधीतं तावतैव प्रतिक्रमणं कुर्वतः इत्यलं प्रसङ्गेन ॥ अधुना एकगाथयैव विनयादिद्वारत्रयं व्याचिख्यासुराह
आलोइए विणीअस्स दिजए तं पसत्थखित्तम्मि । अभिगिज्झ दो दिसाओ चरंतिअं वा जहाकमसो ॥१८०॥ (भा.) आलोचिते सति ‘विनीतस्य' पादधावनानुरागादिविनयवतः, उक्तं च भाष्यकारेण - " अणुरतो भत्तिगतो अमुई अणुयतगो विसेसण्णू । उज्जुत्तमपरितंतो इच्छियमत्थं लहइ साहू ॥ १ ( विशे. ३४०३ ) दीयते तत् सामायिकं, तस्यापि न यत्र क्वचित्, किन्तर्हि ?, प्रशस्तक्षेत्रे - इक्षुक्षेत्रादौ, उक्तं च-" उच्छुवणे सालिवणे पडमसरे कुसुमिते व वणसंडे । गंभीरसाणुणादे पयाहिणजले य जिणघरे वा ॥ १ ॥ दिज्ज न उ भग्ग झामिय, सुसाणसुन्नामणुन्नगेहेसु । छारंगारकयारा मिज्झादीदबदुट्ठे वा ॥ २ ॥ ( विशे. ३४०४ - ३४०५ ) तथा अभिगृह्य - अङ्गीकृत्य द्वे दिशौ पूर्वा वा उत्तरां वा, दीयते इति वर्त्तते, तथा चरन्ती नाम यस्यां दिशि तीर्थकर के वलिमनःपर्यायज्ञानावधिज्ञानि चतुर्द्दशपूर्व धरादयो यावत् युगप्रधाना विहरन्ति, 'यथाक्रमं ' इति गुणापेक्षं यथाक्रमेण दिक्ष्वेतासु दीयते, उक्तं च- "पुवाभिमुहो उत्तरमुहो व देज्जाऽहवा पडिच्छेजा । जाए जिणादयो वा दिसाए जिणचेइयाई व ॥ १ ॥ त्ति, गतं द्वारत्रयम् । अधुना कालादित्रयमेकगाथयैवाभिधित्सुराह| पडिकुट्टदिणे वज्जिअ रिक्खेसु अ मिगसिराइ भणिएसु । पियधम्माईगुणसंपयासु तं होइ दायवं ॥ १८१॥ (भा.) 'प्रतिकुष्टानि' प्रतिषिद्धानि यानि चतुर्दश्यादीनि तानि दिनानि वर्जयित्वा अप्रतिकुष्टेष्वेव पञ्चम्यादिषु दातव्यमिति योगः, उक्तं च-" "चाउदसिं पन्नरसिं वज्जिज्जा अट्ठमिं व नवमिं च । छद्धिं च चउत्थिं बारसिं च दुण्हंपि पक्खाणं ॥ १ ॥”
For Private & Personal Use Only
jainelibrary.org