________________
श्रीआव० मलयगि० वृत्तौ सूत्र स्पर्शिका
॥ ५७० ॥
Jain Education
णलक्षणः कालः - अहरादिः ऋक्षसम्पत्-नक्षत्रसंपत् गुणाः प्रियधर्मत्वादयः तेषां सम्पत् गुणसम्पत्, अभिव्याहरणं | अभिव्याहारः अष्टमो नय इति गाथासमासार्थः, व्यासार्थं तु प्रतिपदं भाष्यकार एव सम्यक् न्यक्षेण वक्ष्यति ॥ तथा चाद्यं द्वारं व्याचिख्यासुराह
बजाए जुग्गं तावइआलोयणा गिहत्थेसु । उवसंपयाइ सासु सुत्थे अत्ते तदुभये य ॥ १७९ ॥ (भा.) 'प्रव्रज्याया' निष्क्रमणस्य यत् प्राणिजातं स्त्रीपुरुषनपुंसकभेदं योग्यं - अनुरूपं, तदन्वेषणीयमिति वाक्यशेषः, तावतीएतावत्येवालोचना अवलोकना वा, केषु ? - गृहस्थेषु - गृहस्थविषया, इयमत्र भावना - योग्यं हि सर्वोपाधिविशुद्धमेव भवति, ततस्तदन्वेषणमवश्यं कर्त्तव्यं तच्चैवम्-कस्त्वं ? को वा ते निर्वेद ? इति पूर्व प्रश्नो विधेयः, तस्मिंश्च विहिते प्रयुक्तालोचनस्य योग्यतावधारणं, तदनन्तरं सामायिकं दद्यात्, न शेषाणां प्रतिषिद्धदीक्षाणामिति नयः, एवं तावत् गृहस्थस्याकृतसा - | मायिकस्य सामायिकार्थमालोचनोक्ता, सम्प्रति कृतसामायिकस्य यतेः प्रतिपादयति-उपसम्पदि साधुषु, आलोचनेति वर्त्तते, सूत्रे अर्थे तदुभये च, अत्रापीयं भावना - सामायिकसूत्राद्यर्थं यदा कश्चिदुपसम्पदं प्रयच्छति यतिस्तदा स आलोचिनां ददाति, अत्र विधिः सामाचार्यामुक्त एव, आह- अल्पं सामायिकसूत्रं, तत् कथं तदर्थमपि यतेरुपसंपत् १, तदभावे वा कथं यतिः ? कथं वा प्रतिक्रमणं ? प्रतिक्रमणमन्तरेण शुद्धिर्वेति, उच्यते, मन्दग्लानादिव्याघाताद् विस्मृतसूत्रस्य यतेः सूत्रार्थमप्युपसम्पदविरुद्धैव, एव्यत्कालं वा दुष्पमान्तमालोक्यानागतामर्षकं सूत्रमिति, तदभावेऽपि तदा चारित्रप
For Private & Personal Use Only
सामायिके आलोच
नादयः
।। ५७० ॥
inelibrary.org