________________
Jain Education
इत्यर्थः, ततश्च तथाभव्यत्वेन आवर्जितस्य- मोक्षगमनं प्रत्यभिमुखीकृतस्य करणं - क्रिया शुभयोगव्यापारणमावर्जितकरणम्, अपरे आवश्यककरणमित्यूचुः, तत्राप्ययमन्वर्थः - आवश्यकेन- अवश्यंभावेन करणमावश्यककरणं, तथाहि - समुद्घातं केचित्कुर्वन्ति इदं त्वावश्यककरणं सर्वेऽपि केवलिनः कुर्वन्ति, अन्ये आवजकरणमिति वा पठन्ति, आवर्ज्या आवर्जो वा ध्यण घञ् वा, मोक्षं प्रति अभिमुखीकर्त्तव्य इत्यर्थः, तस्य करणम्, अतत्तद्भावविवक्षायां च्चिप्रत्यये आवर्जीकरणमिति वा ॥ सम्प्रति समुद्घातादिस्वरूपप्रतिपादनार्थमाह
दंड कवाडे संयंतरे य संहरणया सरीरत्थे । भासाजोगनिरोहे सेलेसी सिज्झणा चेव ॥ ९५५ ॥ इह समुद्घातं कुर्वन् प्रथमसमये बाहल्यतः स्वशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां दण्डमारचयति, द्वितीयसमये पूर्वापरं दक्षिणोत्तरं वाऽऽत्मप्रदेशानां प्रसारणात् पार्श्वतो लोकान्तगामि कपाटं करोति, तृतीये समये तदेव कपाटं दक्षिणोत्तरं पूर्वापरं वा दिगद्वयप्रसारणात् मथिसदृशं मन्थानं लोकान्तप्रापिणमारचयति, एवं च प्रायो लोकस्य बहु पूरितं भवति, मन्थान्तराण्यपूरितानि, जीवप्रदेशानामनुश्रेणि गमनात्, चतुर्थसमये तान्यपि मन्थान्तराणि सह लोकनिष्कुटैः पूरयति, ततश्च सकलो लोकः पूरितो भवति, तदनन्तरं यथोक्तक्रमात् प्रतिलोमं संहरन् पञ्चमे समये मन्थान्तराणि संहरति, जीवप्रदेशान् सकर्म्मकान् मन्थान्तरगतान् सङ्कोचयतीत्यर्थः, षष्ठे समये मन्थानमुपसंहरति, घनतरसङ्कोचात्, सप्तमे समये कपाटं, दण्डात्मनि सङ्कोचात्, अष्टमे समये दण्डमुपसंहृत्य शरीरस्थो भवति, अमुमेवार्थं चेतसि निधायोक्तं दण्डकपाटान्तरमन्थान्तराणि संहरणेन, प्रतिलोममिति गम्यते, शरीस्थ इति वचनात् न चैतत्स्व
For Private & Personal Use Only
ainelibrary.org