SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आ.सु. ७६ Jain Education I ॥ श्रीआवश्यकमलयगिरीयवृत्तौ तृतीयभागः ॥ सम्प्रति केति द्वारं व्याचिख्यासुराह सङ्घगयं सम्मत्तं सुए चरित्ते न पज्जवा सधे । देसविरई पडुच्चा दुण्हवि पडिसेहणं कुज्जा ॥ ८३० ॥ tray org पर्यायेषु वा सामायिकमित्याशङ्कायामुक्तं - सर्वगतं सम्यक्त्वं, सर्वद्रव्यपर्यायरुचिलक्षणत्वात्तस्य, तथा श्रुते श्रुतसामायिके चारित्रे - चारित्रसामायिके न सर्वे पर्याया विषयाः, श्रुतस्याभिलाप्यपर्यायविषयत्वात् द्रव्यस्य च अभिलाप्यानभिलाप्य पर्याययुक्तत्वात्, चारित्रस्यापि 'पढमंमि सबजीवा' इत्यादिना सर्वद्रव्यासर्व पर्यायविषयतायाः प्रागेव प्रतिपादितत्वात्, देशविरतिं प्रतीत्य द्वयोरपि सकलद्रव्यपर्याययोः प्रतिषेधनं कुर्यात्, न सर्वद्रव्यविषयं नापि सर्व पर्यायविषयं देशविरतिसामायिकमिति भावः, आह-अयं सम्यक्त्वविषयः किंद्वारे प्ररूपित एव ततः किं पुनरभिधानमिति ?, उच्यते, प्राग् विषयविषयिणोरभेदेन किं तदिति सामायिकस्य किंद्वार एव द्रव्यत्वगुणत्वनिरूपितस्य ज्ञेयभावेन विषयाभिधानमित्यदोषः । आह च भाष्यकृत् - नणु सामाइयविसओ किंदारंमिवि परूवितो पुढं । कह न पुणरुत्तदोसो होज इहं ? को विसेसो वा ? ॥। २७५९ ॥ अत्रोत्तरम् - किं तंति जाइभावेण तत्थ इह नेयभावतोऽभिहियं । इह विसयविसइभेओ तत्थाभेयोवयारोति ॥ २७६० ॥ ( विशे. ) केष्विति गतं, सम्प्रति कथमिति द्वारं वक्तव्यं, कथं सामायिकमवाप्यते इति, तत्र चतुर्विधमपि सामायिकं मनुष्यत्वादिस्थानावाप्तौ सत्यामवाप्यत इति तत्क्रम दुर्लभताख्यापनार्थमाह For Private & Personal Use Only nelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy