SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ *SUSOSASSASSASSA संसाराटव्यां, किंविशिष्टायामित्याह-मिथ्यात्वाज्ञानमोहितपथायां-मिथ्यात्वाज्ञानाभ्यां मोहितः पन्था यस्यां सा तथा| तस्यां, यैः कृतं देशकत्वं तानहेतः प्रणिपतामि-नमस्करोमि ॥ तच्च देशकत्वं दृष्ट्वा ज्ञात्वा च सम्यक्पन्थानमासेव्य च कृतं, तथा चाह सम्मइंसणदिवो नाणेण य तेहि सुट्ठ उवलो। चरणकरणेहिं पहतो नेवाणपहो जिणिदेहिं॥९१०॥ सम्यग्दर्शनेन-अविपरीतेन दर्शनेन दृष्टो, ज्ञानेन च सुटु-यथावस्थितस्तैरर्हद्भिातः, चरणं च करणं च चरणकरणं, समाहारत्वादेकवचनं, तेन प्रहतः-आसेवितो निर्वाणमाग्र्गो जिनेन्द्रैः, तत्र चरणं-व्रतादि करणं-पिण्डविशुद्ध्यादिः, यथोक्तम्-"वय ५ समणधम्म १० संजम १७ वेयावच्चं १० च बंभगुत्तीतो ९। नाणातितियं ३ तव २ कोहनिग्गहाई चरण मेयं ॥१॥ पिंडविसोही ४ समिती ६ भावण १२ पडिमा १२ य इंदियनिरोहो ५ । पडिलेहण २५ गुत्तीओ ३ अभिग्गहा ४४ चेव करणं तु ॥२॥" न केवलं प्रहत एव, किन्तु ते खल्वनेन पथा निर्वृतिपुरमेव प्राप्ताः॥ तथा चाह सिद्धिवसहिमुवगया नेवाणसुहं च ते अणुप्पत्ता । सासयमबाबाहं पत्ता अयरामरं ठाणं ॥ ९११ ॥ सिद्धिवसति-मोक्षालयम् उपगताः-सामीप्येन कर्मविगमलक्षणेन प्राप्ताः, अनेन एकेन्द्रियव्यवच्छेदमाह, केषाञ्चित सुखदुःखरहिता एव तत्र तिष्ठन्तीति दर्शनं तत्राह-निर्वाणसुखं च ते अनुप्राप्ताः, निरतिशयसुखं प्राप्ता इत्यर्थः, ते च दर्श-13 नपरिभवादिनेहागच्छन्तीति केषाश्चिद्दर्शनं तन्निषेधार्थमाह-शाश्वतं-नित्यं अव्याबाधं-व्याबाधारहितं अजरामरं-जरामरणरहितं स्थान प्राप्ताः ।। सम्प्रति द्वितीयं द्वारं व्याचिख्यासुराह CARROCESCORROGROGRAMORRECOR' Jain Educa t ional For Private & Personel Use Only MMww.jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy