SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ हारं च शशिमालां चातपत्रं चामरे अपि । मुकुटं कुण्डलयुगं देवदृष्यद्वयीमपि ॥३१८॥ सिंहासनं पादुके च पादपीठं च भासुरम् । सद्यः सनत्कुमारार्थ कुबेरस्यार्पयद्धरिः॥ ३१९॥ तिलोत्तमोर्वशीमेनारम्भानुम्बुरुनारदान् । अन्यानपीन्द्रस्तदभिषेकायाशु समादिशत् ॥ ३२०॥ ततः कुबेरस्तैः सार्धमेत्य नागपुरे वरे । आख्यत् सनत्कुमाराय तमादेश दिवस्पतेः ॥ ३२१॥ सनत्कुमारानुज्ञातो विचकारैकयोजनम् । माणिक्यपीठं धनदो रोहणारेस्तटीमिव ।। ३२२ ॥ तवं मण्डपं दिव्यं मणिपीठं च मध्यतः । सिंहासनं तदुपरि विदधे धनदः क्षणात् ॥ ३२३ ॥ क्षीरोदात् त्रिदशैरम्भोऽथानायि धनदाज्ञया । गन्धमाल्यादि चानध्यं सर्वैरपि च पार्थिवैः॥३२४॥ सनत्कुमारं विज्ञप्य तत्र सिंहासनोत्तमे । कुबेर आसयामास शक्रप्राभृतमार्पयत् ॥ ३२५॥ तस्थौ सनत्कुमारस्य सामन्तादिः परिच्छदः । सामानिकादिको वज्रपाणेरिव यथोचितम् ॥ ३२६ ॥ तस्याथ चक्रवर्तित्वाभिषेकं पुण्यवारिभिः। राज्याभिषेकं श्रीनाभिसूनोरिख सुरा व्यधुः ॥ ३२७॥ मङ्गल्यं गीतमारेमे तुम्बुरुप्रमुखैरथ । पटहादीनि वाद्यानि त्रिदशैस्ताडितानि च ॥ ३२८॥ रम्भोर्वशीप्रभृतिभिर्नर्तकीभिरनृत्यत । विचित्राण्यभ्यनीयन्त गन्धर्वैर्नाटकानि च ॥ ३२९॥ सनत्कुमारं त्रिदशा अभिषिच्यैवमुच्चकैः । वस्त्राङ्गरागनेपथ्यमाल्यैर्दिव्यैरयोजत् ॥ ३३०॥ गजरनं गन्धवरमध्यारोह्य न्यवीविशत । सनत्कुमारं मुदितः कुबेरो हस्तिनापुरे ॥ ३३१ ॥ -- ___.* हारां च संवृ.॥ हस्तिनापुरे। रे पुरे । मु०॥ आख्यात् मु.॥२ इन्द्रस्य। 'दि वान' संब.॥ विज्ञाप्य संवृ० का.॥ * प्याञ्चके श संवृ० का.॥ ३ श्रीमादीश्वरस्य । Jain Education inte ! For Private & Personal use only www.jainelibrary.org |
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy