SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व त्रिषष्टिशलाका सप्तमः पुरुषचरिते महाकाव्ये सर्ग: श्रीसनत्कुमारचक्रिचरितम् । ॥४४४॥ समाश्वास्य च तां सद्यः पर्यणैषीन्मनीष्यसौ । नैमित्तिकवरैः सा हि स्त्रीरत्नमिति सूचिता ॥ २५२॥ आगात् तत्र क्षणेनापि वज्रवेगस्य सोदरा । कन्या सन्ध्यावली नामाकुप्यद् भ्रातृवधाच सा ॥ २५३ ॥ 'भर्ता ते भ्रातृवधको भावीति' ज्ञानिनां वचः। स्मृत्वाऽशाम्यत् क्षणेनापि खलोभः कस्य नोपरि ॥२५४॥ जयश्रीः सा द्वितीयेव स्वयंवरपरायणा । आर्यपुत्रं नाथमिच्छन्त्युपतस्थे कुमारिका ॥ २५५ ॥ अनुज्ञातस्त्वत्सखाऽथानन्दभाजा सुनन्दया । गान्धर्वेण विवाहेन तामुपायंस्त रागिणीम् ॥ २५६॥ एत्य विद्याधरौ द्वौ च तदानीमाश्वसेनये । महारथं सँसन्नाहमुपनीयेत्यवोचताम् ॥ २५७ ॥ स्वया हतं वज्रवेगं गरुडेनेव पन्नगम् । विज्ञायाशनिवेगस्तत्पिता विद्याधरेश्वरः ॥ २५८ ॥ विद्याधरबलच्छन्नदिको दिक्करिविक्रमः । त्वां योधयितुमेत्येष रोषक्षाराम्बुसागरः ॥२५९॥ पितृभ्यां चन्द्रवेगेन भानुवेगेन चेरितौ । आवां श्वशुर्यों भवतः साहाय्यार्थे समागतौ ॥२६॥ तत्प्रेषितं रथं चामुमारोहेन्द्ररथोपमम् । अमुं चामुश्च सन्नाहं विजयख द्विषां बलम् ॥ २६१ ॥ चन्द्रवेग-भानुवेगौ वाहनैर्वायुवेगिभिः । साहाय्यायागतौ विद्धि निजे मूर्ती इवापरे॥ २६२॥ तौ तदानीमपि महावाहिनीको समेयतुः। चन्द्रवेग-भानुवेगावब्धी पूर्वापराविव ॥ २६३॥ तदा चाशनिवेगस्यागच्छतः सैन्यसञ्चयैः। उत्तस्थे तुमुलो व्योम्नि पुष्करावर्गकैरिव ॥ २६४॥ तदानीमार्यपुत्राय सन्ध्यावलिरदत्त सा । विद्यां प्रज्ञप्तिका नाम भर्तृगृह्या हि योषितः ॥ २६५॥ बुद्धिमान् । २ भगिनी। * °णा । अथार्यपुत्रं नाथीयन्त्यु' संवृ. ॥ +तः कुमारोऽथा संवृ. ॥ ३ भश्वसेनस्य पुत्राय। ४ कवचसहितम् । ५ परिभेहि। त्तस्थौ तु मु.॥ ॥४४४॥ Jain Education into For Private & Personal use only Kotwww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy