________________
श्रीधर्मनाथजिनस्य परिवारः।
यत संतोषवतां सौख्यं तृणसंस्तरशायिनाम् । न तत् संतोषवन्ध्यानां तुलिकाशायिनामपि ॥३४४॥ असंतुष्टास्तुणायते धनिनोऽपीशिनां पुरः । ईशिनोऽपि तृणायन्ते संतुष्टानां पुरः स्थिताः ॥ ३४५॥ आयासमात्रं नश्वर्य चक्रिशक्रादिसंपदः । अनायासं च नित्यं च सुखं संतोषसंभवम् ।। ३४६॥ इति लोभं निराकर्तुं सर्वदोषनिकेतनम् । अद्वैतसौख्यसदनं सुधीः संतोषमाश्रयेत् ॥ ३४७॥ एवं जितकषायः सन्नत्रापि शिवसौख्यभाक् । परत्रावश्यमाप्नोति शिवं पुनरनश्वरम् ॥ ३४८॥ श्रुत्वैवं देशनां भर्तुः प्राज्याः पर्यव्रजञ्जनाः । सम्यक्त्वं तु हरिभेजे श्रावकत्वं तु सीरभृत् ॥ ३४९॥ पूर्णायामादिपौरुष्यां व्यसृजद् देशनां प्रभुः । चक्रेऽरिष्टः स्वामिपादपीठस्थो गणभृत् ततः ॥३५०॥ अन्ते द्वितीयपोरुष्यां व्यस्राक्षीत् सोऽपि देशनाम् । नत्वाऽर्हन्तं ततो जग्मुः शक्र-विष्णु-बलादयः॥३५१॥
ततः स्थानादथान्यत्र सर्वातिशयशोभितः । भगवान् धर्मनाथोऽपि विजहार महीतलम् ॥ ३५२ ॥ चतुःषष्टिः सहस्राणि श्रमणानां महात्मनाम् । आर्यिकानां तु द्वापष्टिः सहस्राः सचतुःशताः ॥ ३५३ ।। तथा चतुर्दशपूर्वभृतां नवशतानि तु । अवधिज्ञानभाजां तु त्रिसहस्री सषट्शती ॥ ३५४ ॥ मनःपर्ययिणां पश्चचत्वारिंशच्छतानि तु । तथा शतानि तान्येव केवलज्ञानशालिनाम् ।। ३५५॥ जातवैक्रियलब्धीनां मुनीनां शतसप्ततिः। द्वे सहस्रे शतान्यष्टौ वादलब्धिमतां पुनः॥ ३५६ ॥ लक्षद्वयी श्रावकाणां चत्वारिंशत्सहस्रयुक् । श्राविकाणां चतुर्लक्षी त्रयोदशसहस्रयुक् ॥ ३५७॥ वर्षलक्षद्वयं साधं वर्षद्वितयवर्जितम् । आकेवलाद् विहरतः परिवारोऽभवत् प्रभोः ॥३५८॥ . १ तृणमिव आचरन्ति । २ बहवः। ३ विससर्ज। .
पष्टि: सहामान्यत्र सार सोऽपि
JlainEducation internet
For Private & Personal use only
Surww.jainelibrary.org