SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ विमलनाथजिनजन्म शुद्धद्वादश्यां राधस्योत्तरभद्रपदासु मे । सोऽथ च्युत्वा ततः श्यामादेवीकुक्षाववातरत् ॥ २६॥ मुखे प्रविशतस्तीर्थकरजन्माभिसूचकान् । श्यामादेवी महास्वमांश्चतुर्दश ददर्श सा ॥ २७ ॥ पूर्णे काले माघशुक्लतृतीयायां निशाकरे । उत्तरभद्रपदास्थे वोच्चस्थेषु ग्रहेषु च ॥ २८॥ सुतं सूकरलक्ष्माणं तैपनीयोपमद्युतिम् । ज्ञानत्रयधरं श्यामास्वामिनी सुपुवे सुखम् ॥ २९ ॥ स्वामिनः स्वामिमातुश्च सूतिकमैत्य सर्वतः। षट्पञ्चाशद्दिकुमार्यश्चेटिका इव चक्रिरे ॥३०॥ एत्य शक्रो मेरुशैले नीत्वाऽङ्के न्यस्य च प्रभुम् । अतिपाण्डुकम्बलास्थे सिंहासन उपाविशत् ॥३१॥ त्रयोदशं जिनेन्द्रं तं सुरेन्द्रा अच्युतादयः। त्रिषष्टिः पयामासुः क्रमशस्तीर्थवारिभिः ॥ ३२ ॥ ईशानाङ्के निवेश्येशं शक्रोऽप्यस्नपयजलैः । वृषशृङ्गोत्थिलैक शैलशृङ्गोत्थैरिव निझरैः ॥ ३३ ॥ स्वामिनं देवदृष्येण वाससा वासवः स्वयम् । आर्द्र स्नानीयपानीयैर्माणिक्यवदमार्जयत् ॥ ३४ ॥ गोशीर्षचन्दनैः श्यामानन्दनं नन्दनाहृतैः । स व्यलिम्पद् वपुर्लग्नदेवदूष्यभ्रमप्रदैः ॥ ३५॥ विचित्रैर्दामभिर्दिव्यैर्वस्त्रालङ्करणैरपि । अर्चित्वाऽऽरात्रिकं कृत्वा प्रभुं शक्रोऽस्तवीदिति ॥३६ ।। मोहेन तिमिरेणेव पस्तिोऽपि प्रसारिणा । नितान्तकोपनैनक्तश्चरैरिव जटाधरैः ॥ ३७॥ बुद्धिसर्वखहरणैश्चार्वाकैस्तस्करैरिव । अत्यन्तमायानिपुणेोमायुभिरिव द्विजैः ॥३८॥ भ्रमद्भिर्मण्डलीभूय कौलाचायवृकैरिव । उलूकैरिव पाखण्डैवल्गद्भिरपरैरपि ॥ ३९ ॥ त्रिषष्टि. ६८४ १ तपनीयम्-सुवर्णम् । लास्थसिं० सं०॥ जयरत्नस्तम्भमिवामृजत् । सं०॥ २ लग्नम्-प्रतम् 'लागेलु' इति भाषायाम्। ३ शूगालैः। LASSROORSAGARCAESAROS Jain Education a l For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy