SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीय पर्व प्रथम: सर्गः ॥१७६॥ अजितनाथचरितम् । SAMODALAMOROSCAMESSAGACAD अजितस्वामि सगरचक्रवर्तिप्रतिबद्धं द्वितीयं पर्व । __ प्रथमः सर्गः जयन्त्यजितनाथस्य, जितशोणमणिश्रियः । नरेन्द्रवदनादर्शाः, पादपद्मद्वयीनखाः॥१॥ काहिपाशनिर्णाशजाङ्गलीमन्त्रसन्निभम् । अजितस्वामिदेवस्य, चरितं प्रस्तवीम्यतः ॥२॥ नाभीसनामेपानां, जम्बूद्वीपस्य मध्यगम् । दुःपमसुषमाप्रायं, विदेहक्षेत्रमस्ति तत् ॥३॥ अस्ति तत्र महानद्याः, सीताया दक्षिणे तटे । विजयो वत्स इत्याख्याविख्यातो विपुलर्द्धिकः ॥४॥ एकदेश इव स्वर्गप्रदेशस्य भुवं गतः । अभ्राजिष्ट स विभ्राणो, रामणीयकमद्भुतम् ॥५॥ तत्रोपर्युपरि ग्राम, ग्रामैरथ पुरं पुरैः । निवसद्भिर्यदि परं, नभस्येवं हि शून्यता ॥६॥ सम्पदा निर्विशेषाणां, परस्परमतुच्छया । पूर्नामाणां तत्र भेदो, राजाश्रयकृतो यदि ॥७॥ स्वच्छखादुजलास्तत्र, महावाप्यः पदे पदे । क्षीराम्भोनिधिनिर्गच्छत्सिराभिरिख पूरिताः ॥८॥ तत्र चाऽलब्धमध्यानि, स्वच्छानि च महान्ति च । स्थाने स्थाने तडागानि, मनांसीव महात्मनाम् ॥९॥ तत्राऽऽर्द्रवल्लीबहला, आरामाश्च पदे पदे । तन्वन्ति मेदिनीदेव्याश्चित्रपत्रलताभ्रमम् ॥ १० ॥ ग्रामे ग्रामे चेहूंवाटास्तत्र पान्थत्पाच्छिदः । महेक्षुभिः शोभमाना, रसाम्भस्कुम्भसन्निभैः ॥११॥ १ पद्मरागमणिः। २ कर्मनागपाशनाशे जाङ्गुलीमनसमम् । * म्यहम् ल ॥ ३ नाभिसदृशस्य । °वाऽस्ति शू खंता ॥ ४ इक्षुक्षेत्राणि। CARE पूर्वभवचरिते प्रथमो विमलवाहनभवः। ॥१७६॥ Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy