SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ द्रुमवद् दर्शयिष्यन्ति,खे पुष्पाण्यग्निमम्बुवत् । किं नु स्प्रक्ष्यन्ति वन्ध्या या,लप्स्यन्ते धेनुवत् सुतम्॥३१४॥ विषाणिनं महिषवत् , किमानेष्यन्ति रासभम् ? । तरीवत् तारयिष्यन्ति, किं पाषाणान् जलाशये?॥३१५॥ अवेदनान् नारकांच, भाषमाणा इमे जडाः । किमन्यथा करिष्यन्ति, ग्रन्थान् सर्वज्ञभाषितान् ?॥३१६॥ ॥ पञ्चभिः कुलकम् ॥ धृतस्त्वत्पुरुषैरत्राऽवस्थास्ये सप्त वासरान् । न खल्वेवमष्टम्भं, कुर्वन्त्यनृतभाषिणः ॥ ३१७ ॥ सत्यं न चेन्मम वचः, सप्तमेऽह्नि भवेन्नृप । निग्राहणीयः श्वपचैरहं तस्करवत् तदा ॥ ३१८ ॥ राजाऽपि खानुवाचैवं, ब्राह्मणस्याऽस्य गीरियम् । अनिष्टा दुर्घटा वा संवादिन्यपि च यद्यपि ॥३१९॥ तथाऽपि सप्ताहोरात्रान् , मनः सन्देग्धि हन्त ! नः। भविष्यति तदन्तेऽस्य, सत्या-ऽसत्यविवेचनम् ॥३२०॥ ॥ युग्मम् ॥ इत्युक्त्वा न्यासमिव तं, नृपतिः स्वाङ्गरक्षिणाम् । द्विजं समर्पयामास, पर्षदं विससर्ज च ॥३२१॥ महत् कुतूहलमहो', द्रष्टव्यं सप्तमे दिने । उन्मत्तभाषी विप्रोऽयं, तदहो! निहनिष्यते ॥ ३२२ ॥ ही! स्याद् युगान्तः को ह्येवमन्यथा मृत्यवे वदेत् ? । एवं तदानीमभवद , विचित्रा नागरोक्तयः॥३२३॥ ॥ युग्मम् ॥ आश्चर्य दर्शयिष्यामि, सम्प्राप्तेऽहनि सप्तमे । इत्युत्सुको द्विजः कष्टं, पड़ दिनान्यत्यवाहयत् ॥ ३२४ ॥ राजाऽपि संशयच्छेदोत्कण्ठितो गणयन् मुहुः । कथञ्चिदतिचक्राम, पण्मासानिव षड् दिनान् ॥ ३२५ ॥ अस्थिरताम् । २ चाण्डालैः। Jan Education For Private & Personal use only www.jainelibrary.org |
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy