SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ दायमादाय दायादा, विवदन्ते पुनर्न हि । अवाप्तोत्तमसिद्धान्ताः, शिष्या इव गुरुं प्रति ॥ ८५॥ भगिनीवद् दुहितृवत, स्नुषावन्मातृवत् तथा । मन्यते परकीयाः स्त्रीयायनिष्ठोऽखिलो जनः ॥८६॥ नास्ति यत्याश्रम इव, त्वद्राज्ये वैरवागपि । सन्तोषशालिनि जने, नाऽऽधिः साऽम्भसि तापवत ॥८७॥ भुवि सर्वोषधीमय्यां, न व्याधिः प्रावृषीव तृट् । त्वयि कल्पद्रुम इव, दारिद्यं च न कस्यचित् ॥ ८८॥ अस्ति दुःखाकर लोके, न किञ्चिदपि कस्यचित । किन्तूपनतमस्त्येतन्ममैव हि तपखिनः ॥ ८९॥ अवन्तिाम देशोऽस्ति, खर्गदेश्यो महानिह । नगरोद्यान-नद्याद्यैरनवद्यैर्मनोहरः॥९०॥ महासर:-कूप-वापी-विचित्रारामबन्धुरः। तत्राऽश्वभद्रो नामाऽस्ति, ग्रामस्तिलकवद् भुवः ॥ ९१॥ तत्र ग्रामेऽस्मि वास्तव्यो, वेदाध्ययनतत्परः । अग्निहोत्ररतो नित्यं, शुद्धब्रह्मकुलोद्भवः ॥ ९२ ॥ पत्न्याः प्राणप्रियं पुत्रमर्पयित्वाऽहमन्यदा । विशेषविद्याध्ययनहेतोामान्तरं गतः॥ ९३॥ पठतस्तत्र चाऽन्येधुरुदभृदरतिर्मम । अनिमित्तं महदेतदित्यक्षुभ्यमहं ततः ॥ ९४ ॥ भीतस्तेनानिमित्तेन, स्खं ग्रामं पुनरागमम् । अहं पूर्वाश्रितां जात्यतुरङ्ग इव मन्दुंराम् ॥ ९५॥ दरादहमपश्यं च, श्रीविमुक्तं निजं गृहम् । किमेतदिति चित्ते च, चिरं यावदचिन्तयम् ॥ ९६ ॥ अमन्दं स्पन्दितं तावद् , दक्षिणेतरचक्षुषा । शुष्कवृक्षे चटित्वोच्चै, रटितं करटेन च ॥ ९७॥ इत्यादिभिर्दनिमित्तैर्विद्धो हृदि शरैरिव । विमनाः प्राविशमहं, चश्चापुरुषवद् गृहम् ।। ९८॥ मामापतन्तं सम्प्रेक्ष्य, ब्राह्मणी विलुलत्कचों । सद्यो हा पुत्र ! हा पुत्रेत्याक्रन्दन्त्यपतद् भुवि ॥९९ ॥ . भागम् । २ प्राप्तम् । ३ दुःखम् । ४ स्वर्गसदृशः । ५ अपशकुनम् । ६ अश्वशालाम् । ७ वामनेत्रेण । ८ काकेन । ९ विकीर्ण केशा। Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy