________________
त्रिपष्टिशलाकापुरुषचरिते ॥१॥
प्रथमं पर्व प्रथमः
सर्गः ऋषभचरितम् ।
ऋषभस्वामि-भरतचक्रवर्तिचरितप्रतिबद्धं प्रथमं पर्व ।
प्रथमः सर्गः सकलार्हत्प्रतिष्ठानमधिष्ठानं शिवश्रियः । भूर्भुवःस्वस्त्रयीशानमार्हन्त्यं प्रणिर्दध्महे ॥१॥ नामा-ऽऽकृति-द्रव्य-भावः, पुनतस्त्रिजगजनम् । क्षेत्रे काले च सर्वस्मिन्नर्हतः समुपास्महे ॥२॥ ___ आदिमं पृथिवीनाथमादिमं निष्परिग्रहम् । आदिमं तीर्थनाथं च, ऋषभस्वामिनं स्तुमः ॥३॥ अर्हन्तमजितं विश्वकमलाकरभास्करम् । अम्लानकेवलादर्शसङ्क्रान्तजगतं स्तुवे ॥४॥ विश्वभव्यजनारामकुल्यातुल्या जयन्ति ताः । देशनासमये वाचः, श्रीसम्भवजगत्पतेः ॥५॥ अनेकान्तमताम्भोधिसमुल्लासनचन्द्रमाः । दद्यादमन्दमानन्दं, भगवानभिनन्दनः ॥६॥ द्युसत्किरीटशाणामोत्तेजिताङ्गिनखावलिः । भगवान् सुमतिखामी, तनोत्वभिमतानि वः ॥७॥ पद्मप्रभप्रभोर्देहभासः पुष्णन्तु वः शिवम् । अन्तरङ्गारिमथने, कोपाटोपादिवाऽरुणाः ॥८॥ श्रीसुपार्श्वजिनेन्द्राय, महेन्द्रमहितातये । नमश्चतुर्वर्णसङ्घगगनाभोगभाखते ॥९॥ चन्द्रप्रभप्रभोश्चन्द्रमरीचिनिचयोज्वला । मूर्तिमनसितध्याननिर्मितेव श्रियेऽस्तु वः ॥१०॥ करामलकवद् विश्वं, कलयन् केवलश्रिया । अचिन्त्यमाहात्म्यनिधिः, सुविधिर्बोधयेऽस्तु वः ॥११॥
त्रिभुवनाधीशम् । २ चित्तैकाग्र्येण नमस्कुर्महे । ३ सेवां कुर्महे। ४ अम्लानो यः केवलज्ञानरूप आदर्शस्तस्मिन् सङ्क्रान्तानि जगन्ति यस्य स तम् । ५ समप्रभव्यजन एव आराम स्तस्मिन सारणिसमानाः । ६ कोपाडम्बरात् । ७ करस्थितनिर्मलजलवत् ।
| पूर्वभवचरिते
प्रथमोधनसासार्थवाहभवः।
॥१॥
Jan Education International
For Private & Personal use only
www.jainelibrary.org