SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥१३४॥ Jain Education Interna स्वामिन्नृषभनाथेति, जप्यमाना तवाऽभिधा । आलम्बते सर्वसिद्धिसमाकर्षण मन्त्रताम् ॥ ३७८ ॥ न वज्रमपि भेदाय, न शूलमपि हि च्छिदे । तेषां शरीरिणां नाथ !, येऽधित्वद्भक्तिवर्मिताः ।। ३७९ ॥ भगवन्तमिति स्तुत्वा, नत्वा च पुलकाश्चितः । निरगाद् देवतागारान्नरेश्वरशिरोमणिः ॥ ३८० ॥ जग्राह वज्रसन्नाहं, हेममाणिक्यमण्डितम् । विजयश्री विवाहाय, स कञ्चुकमिवोच्चकैः ॥ ३८१ ॥ शुशुभे वर्मणा तेन, भासुरेण नरेश्वरः । घनंविद्रुमसंहत्याऽधिपतिर्यादसामिव ।। ३८२ ॥ शिरस्त्राणं च शिरसि, न्यधत्त धरणीधवः । शैलशृङ्गनिविष्टाभ्रमण्डलश्रीविडम्बकम् || ३८३ || पृष्ठेऽवनाच्च तूणीरौ, लोहनाराचपूरितौ । महाफणिगणाकीर्णपातालविवरोपमौ ॥ ३८४ ॥ युगान्तसमयोदस्तयमदण्डसहोदरम् । कोदण्डं वामदोर्दण्डे, धारयामास भूपतिः ।। ३८५ ॥ आशास्यमानः स्वस्तीति, सौवस्तिकवरैः पुरः । जीव जीवेत्युच्यमानः, स्वगोत्रजरतीजनैः ॥ ३८६ ॥ नन्द नन्देत्युच्यमानो, जरदाप्तजनैः पुनः । चिरं जय जयेत्युच्चैर्गद्यमानश्च वन्दिभिः ॥ ३८७ ॥ मेरुशृङ्गमिव स्वारौद्र, महेभं स महाभुजः । आरुरोहाऽऽरोहण, दत्तहस्तावलम्बनः ॥ ३८८ ॥ [ त्रिभिर्विशेषकम् ] इतस्तदानीमेव श्री भरतेशोऽपि पुण्यधीः । जगाम देवतागारं कोशागारं शुभश्रियः ॥ ३८९ ॥ प्रतिमामादिनाथस्य, रुपयामास तत्र सः । दिग्जयानी तपद्मादितीर्थतोयैर्महामनाः ॥ ३९० ॥ मार्ज राजशार्दूलो, देवदृष्येण वाससा । प्रतिमां तामप्रतिमां, शिल्पिवय मणीनिव १ ॥ ३९१ ॥ १ वज्रकवचम् | २ विपुलप्रवालसमूहेन । ३ यादसां अधिपतिः समुद्रः । ४ पुरोहितैः । ५ इन्द्रः । * शिवथि वा ॥ For Private & Personal Use Only 6 प्रथमं पर्व पञ्चमः सर्गः ऋषभजिन भरतचक्रि चरितम् । भरत बाहुबलियुद्धम् । ॥१३४॥ www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy