SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Jain Education Internationa कृमयस्त्वग्गता एव, ह्यमी निरसरन्निति । तैलाभ्यङ्गं मुनेर्भूयो, जीवानन्दोऽथ निर्ममे ॥ ७६८ ॥ तेनाभ्यङ्गेन भूयोऽपि, भूयांसो मांसगा अपि । निरीयुः कृमयो वातेनोदानेन रसा इव ॥ ७६९ ॥ तथैवाच्छादने रत्नकम्वले कृमयोऽलगन् । अलक्तकैंपटे दभोऽतिद्र्यहस्येव जन्तवः ॥ ७७० ॥ तस्मिन् गोमृतके भूयस्तान् कृमीन् रत्नकम्बलात् । तथैवाऽपातयदहो !, भिषजो बुद्धिकौशलम् ॥ ७७१ ॥ गोशीर्षचन्दनरसासारैराप्याययन्मुनिम् । जीवानन्दोऽम्भोद इव, वृष्ट्या ग्रीष्मादितं द्विपम् ॥ ७७२ ॥ भूयोऽभ्यङ्गेन निरंयुः, कृमयोऽस्थिगता अपि । न वज्रपञ्जरेऽप्यस्ति, स्थानं रुष्टे बलीयसि ॥ ७७३ ॥ रत्नकम्बललग्नांस्तान्, पुनर्गोमृतके कृमीन् । स चिक्षेपाऽधमं स्थानमधमानां हि युज्यते ॥ ७७४ ॥ गोशीर्षचन्दनरसैर्विलिलेप मुनिं पुनः । भक्त्या परमया देवमिव सद्यो भिषग्वरः ।। ७७५ ।। संरोपणौषधैजीतनवत्वक् कान्तिमान् मुनिः । चकासामास निर्मृष्टकाञ्चनप्रतिमेव सः ॥ ७७६ ॥ तैर्भक्तिदक्षैः क्षमितः, स क्षमाक्षमणस्ततः । ययौ विहर्तुमन्यत्र, नास्था वाऽपि हि तादृशाम् ॥ ७७७ ॥ ततोऽवशिष्टगशीर्षचन्दनं रत्नकम्बलम् । तत्र विक्रीय जगृहस्ते स्वर्ण बुद्धिशालिनः ॥ ७७८ ॥ तेन स्वर्णेन ते चैत्यं, सुवर्णेन स्वकेन च । कारयामासुरुत्तुङ्ग, मेरुशृङ्गमिवाऽऽहृतम् ॥ ७७९ ॥ जिनाचमर्चयन्तस्ते, गुरूपासनतत्पराः । कर्मवत् क्षपयामासुः कञ्चित् कालं महाशयाः ॥ ७८० ॥ ते षडप्येकदा जातसंवेगाः साधुसन्निधौ । धीमन्तो जगृहुदीक्षां मर्त्यजन्मतरोः फलम् ॥ ७८१ ॥ विजहुः पुरि पुरो, ग्रामे ग्रामाद् वने वनात् । तिष्ठन्तो नियतं कालं, राशौ राशेरिव ग्रहाः ॥ ७८२ ॥ * कपुटे आ ॥ १ अतिक्रान्तादिनद्वयस्य । निरीयुः संता ॥ संरोहणी° खं, आ ॥ [ श्रवण संता ॥ For Private & Personal Use Only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy