SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ वृत्तिः अनुयोग मलधा आवश्यअर्थाधि० रीया वजजोग'गाहा, व्याख्या-प्रथमे सामायिकलक्षणे अध्ययने प्राणातिपातादिसर्वसावद्ययोगविरतिराधिकारः, 'उकित्तणत्ति द्वितीये चतुर्विशतिस्तवाध्ययने प्रधानकर्मक्षयकारणत्वाल्लब्धबोधिविशुद्धिहेतुत्वात् पुनर्बोधिलाभफलत्वात् सावद्ययोगविरत्युपदेशकत्वेनोपकारित्वाच तीर्थङ्कराणां गुणोत्कीर्तनार्थाधिकारः, "गुणवओ य पडिवत्ति'त्ति गुणा-मूलोत्तरगुणरूपा व्रतपिण्डविशुद्ध्यादयो विद्यन्ते यस्य स गुणवाँस्तस्य प्रतिपत्तिः-वन्दनादिका कर्तव्येति तृतीये वन्दनाध्ययनेाधिकारः, चशब्दात् पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्तिः कर्तव्येति द्रष्टव्यम्, उक्तं च-"परियाय परिस पुरिसं खेत्तं कालं च आगमं नाउं । कारणजाए जाए जहारिहं जस्स जं जोगं ॥१॥” 'खलियस्स निंदण'त्ति स्खलितस्य-मूलोत्तरगुणेषु प्रमादाचीर्णस्य प्रत्यागतसंवेगस्य जन्तोविशुद्ध्यमानाध्यवसायस्याकार्यमिमिति भावयतो निन्दा प्रतिक्रमणेऽर्थाधिकारः, 'वणतिगिच्छत्ति व्रणचिकित्सा कायोत्सर्गाध्ययनेऽर्थाधिकारः, इदमुक्तं भवति-चारित्रपुरुषस्य योऽयमतिचाररूपो भावव्रणस्तस्य दशविधप्रायश्चित्तभेषजेन कायोत्सर्गाध्ययने चिकित्सा प्रतिपाद्यते, 'गुणधारणा चेव'त्ति गुणधारणा प्रत्याख्या|नाध्ययने अर्थाधिकारः, अयमत्र भावार्थ:-मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याश्च निरतिचारं सन्धारणं यथा भवति तथा प्रत्याख्यानाध्ययने प्ररूपणा करिष्यते, चशब्दादन्येऽप्यवान्तरार्थाधिकारा विज्ञेयाः, एवकारोऽवधारण इति गाथार्थः॥१॥ तदेवं यदादौ प्रतिज्ञातम् 'आवश्यक निक्षेपस्यामी'त्यादि, तत्रावश्यक १ पर्यायं पर्षदं पुरुषं क्षेत्र कालं चागमं च ज्ञात्वा । कारणजाते जाते यथार्ह यस्य यद्योग्यम् ॥ १॥ Jain Education For Private Personel Use Only Mainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy