________________
अनुयो०
मलधा
रीया
॥ ३७ ॥
Jain Education
प्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्ये चैव धर्मश्च, सह सिद्धं चतुष्टयम् ॥ १ ॥" इत्यादि । अतस्तद्व्यवच्छेदार्थमाह-ज्ञानावरणक्षपणादिप्रकारेणोत्पन्ने न तु सहजे ज्ञानदर्शने धरन्तीत्युत्पन्नज्ञानदर्शनधरास्तैः, न च प्रस्तुतविशेषणव्यवच्छेद्या अप्येवंभूता एव, 'सह सिद्धं चतुष्टयमित्यादिवचनविरोधप्रसङ्गात्, तर्हि सुगता इत्थंभूता अपि भविष्यन्तीत्याशङ्कयाऽऽह-'तीयपचुप्पण्णे'त्यादि, अतीतवर्तमान भविष्यदर्थज्ञाय कैरित्यर्थः, न च सुगतानामतीतभविष्यदर्थज्ञातृत्वसम्भवः, एकान्तक्षणभङ्गवादित्वेन तदसत्त्वाभ्युपगमाद्, असतां च ग्रहणेऽतिप्रसङ्गाद्, अथ सन्तानद्वारेण कालत्रयेऽप्यर्थानां सद्भावादतीताद्यर्थज्ञातृत्वं तेषामपि न विहन्यत |इत्याशङ्कयाऽऽह - 'सर्वदर्शिभिरिति, सर्वम् एकेन्द्रियद्वीन्द्रियजीवादि वस्तु केवलज्ञानेन जानन्तीति सर्वज्ञाः, तदेव सर्व केवलदर्शनेन पश्यन्तीति सर्वदर्शिनस्तैः, शाक्यानां त्वतीताद्यर्थज्ञातृत्वेऽपि सर्वज्ञादित्वं नोपपद्यते, कतिपयधर्माद्यभीष्टपदार्थज्ञातृत्वस्यैव तेष्वभ्युपगमाद्, यत उक्तं तच्छिष्यैः - "सर्व पश्यतु मा वाऽसाविष्टमर्थं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं तत्र नः कोपयुज्यते ? ॥ १ ॥" इत्यादि, यथोक्त गुणविशिष्टत्वात् 'तिलुक्कवहियमहिये'त्यादि, 'वहिय'त्ति विगलद्वहलानन्दाश्रदृष्टिभिः सहर्ष निरीक्षिता यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन भावस्तवेन महिता - अभिष्टुताः सुगन्धिपुष्पप्रकरक्षेपादिना तु द्रव्यस्तवेन पूजिताः, तत एषां द्वन्द्वे त्रैलोक्येन भवनपतिव्यन्तरनरविद्याधरवैमानिकादिसमुदायलक्षणेन वहि
१ प्रत्यन्तरे नास्ति.
For Private & Personal Use Only
वृत्तिः श्रुतनिक्षेपः
॥ ३७ ॥
jainelibrary.org