________________
सोलससयाणि चउरुत्तराणि होंति उ इमंमि गाहाणं । दुसहस्समणुट्टुभ छंदवित्तप्पमाओ भणिओ ॥ १ ॥ णयरमहादारा इव उवक्कमदाराणुओगवरदारा । अक्खरबिंदुगमत्ता लिहिया दुक्खक्खयट्टाए ॥ २ ॥ गाहा १६०४ अनुष्टुप् ग्रंथाग्रं ॥ २०८५ ॥ अणुओगदारंसुत्तं समत्तं ॥
व्याख्या- 'ज्ञाते' सम्यग् अवगते 'गिण्हियन्वे' ग्रहीतव्ये उपादेय इत्यर्थः, 'अग्रहीतव्ये' अनुपादेये, स च हेय उपेक्षणीयश्च द्वयोरप्यग्रहणाविशेषात्, चशब्द उक्तसमुचये, अथवा अग्रहीतव्यशब्देन हेय एवैको गृयते, उपेक्षणीयं स्वनुक्तमप्ययमेव चकारः समुच्चिनोति, एवो गाथालङ्कारमात्रे, 'अत्थमि'त्ति 'अर्थे' ऐहिकामु ष्मिके, तत्र ऐहिको ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्योऽहिविषकण्टकादिरुपेक्षणीयस्तृणादिः, आमु ष्मिको ग्रहीतव्यः सम्यग्दर्शनचारित्रादिः अग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयस्तु स्वर्गविभूत्यादिः, एवंभूतेऽर्थे यतितव्यमेवेति, अत्रैवकारोऽवधारणे, तस्य च व्यवहितः प्रयोगः, तद्यथा-ज्ञात एवेति, तदयमर्थो - ग्राह्याग्राह्यो|पेक्षणीयेऽर्थे ज्ञात एव तत्प्रातिपरिहारोपेक्षार्थिना यतितव्यं, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इति, 'इति' एवं भूतः सर्वव्यवहाराणां ज्ञाननिबन्धनत्वप्रतिपादनपरो य उपदेशः, स किमित्याह - 'नय' इति प्रस्तावाज्ज्ञाननयो 'नामे' ति शिष्यामन्त्रणे इत्यक्षरघटना । भावार्थस्त्वयम्-इह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थ प्रतिपाद
Jain Educationtional
For Private & Personal Use Only
www.jainelibrary.org