________________
माहिनयानाममशतारं नया साहका प्रमादिनयाः, तत्म, इति सङ्ग्राहकन मुक्तिफ
वृत्तिः
अनुयो मलधा
उपक्रमे नयाधि०
रीया
AMERICANAGGAR
॥२६७॥
नन तेषामपि सङ्घाहिनयानामनेकविधत्वात् पुनरनवस्थैव, तथाहि-पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नय|शतान्युक्तानि, यत्प्रतिपादकं सप्तशतारं नयचक्राध्ययनमासीद, उक्तं च-"एकेको य सयविहो सत्तनयसया हवंति एमेवे'त्यादि, सप्तानां च नयशतानां सङ्ग्राहकाः पुनरपि विध्यादयो द्वादश नयाः, यत्प्ररूपकमिदानीमपि द्वादशारं नयचक्रमस्ति, एतत्सङ्ग्राहिणोऽपि सप्त नैगमादिनयाः, तत्सङ्ग्राहिणी पुनरपि द्रव्यपर्यायास्तिको नयौ ज्ञानक्रियानयौ वा निश्चयव्यवहारौ वा शब्दार्थनयो वेत्यादि, इति सङ्ग्राहकनयानामप्यनेकविधत्वात्सैवानवस्था, अहो अतिनिपुणमुक्तं, किन्तु प्रक्रान्ताध्ययने सामायिक विचार्यते, तच्च मुक्तिफलं, ततो यदेवास्य मुक्तिप्राप्तिनिबन्धनं रूपं तदेव विचारणीयं, तच्च ज्ञानक्रियात्मकमेव, ततो ज्ञानक्रियानयाध्यामेवास्य विचारो युक्ततरो नान्यैः, तत्र ज्ञाननयो ज्ञानमेव मुक्तिप्रापकतया प्रतिजानीते, ततस्तन्मताविष्करणार्थमाह
णायंमि गिण्हिअब्वे अगिण्हिअव्वंमि चेव अत्थंमि । जइअव्वमेव इइ जो उवएसो सो नओ नाम ॥ ५॥ सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणडिओ साहू ॥६॥ से तं नए । अणुओगद्दारा सम्मत्ता (सू०१५६) १ एकैकश्च शतविधः सप्तशतानि नया भवन्ति एवमेव.
॥२६७॥
ALREAK
Jain Education
For Private & Personel Use Only
CAMjainelibrary.org