________________
अनुयो०
मलधारीया
॥ २६५ ॥
Jain Education
नमेवैकमिच्छतीत्यर्थः, उक्तं च- "सुयनाणे अ निउत्तं, केवले तयणंतरं । अप्पणो य परेसिं च, जम्हा तं परिभावगं ॥ १ ॥ "ति, अयं च नयो वर्तमानमपीच्छन् स्वकीयमेवेच्छति, परकीयस्य स्वाभिमतकार्यासाधकत्वेन वस्तुतोऽसत्त्वादिति, अपरं च - भिन्नलिङ्गैर्भिन्नवचनैश्च शब्दैरेकमपि वस्त्वभिधीयत इति प्रतिजानीते, यथा तटः तटी तटमित्यादि, तथा गुरुर्गुरव इत्यादि, तथा इन्द्रादेर्नामस्थापनादिभेदान् प्रतिपद्यते, वक्ष्यमाणनयस्त्वतिविशुद्धत्वाल्लिङ्गवचनभेदाद्वस्तुभेदं प्रतिपत्स्यते नामस्थापनाद्रव्याणि च नाभ्युपगमिष्यतीति भावः, इत्युक्त ऋजुसूत्रः, अथ शब्द उच्यते तत्र 'शप आक्रोशे शप्यते-अभिधीयते वस्त्वनेनेति शब्दः, तमेव गुणीभूतार्थ मुख्यतया यो मन्यते स नयोऽप्युपचाराच्छन्दः, अयं च प्रत्युत्पन्नं- वर्तमानं तदपि ऋजुसूत्राभ्युपगमापेक्षया विशेषिततरमिच्छति, तथाहि-तटस्तदी तटमित्यादिशब्दानां भिन्नान्येवाभिधेयानि, भिन्नलिङ्गवृत्तित्वात्, स्त्रीपुरुष नपुंसकशब्दवदित्यसौ प्रतिपद्यते, तथा गुरुर्गुरव इत्यत्राप्यभिधेयभेद एव, भिन्नवचनवृ तित्वात्पुरुषः पुरुषा इत्यादिवदिति, नामस्थापनाद्रव्यरूपाश्च नेन्द्राः, तत्कार्याकरणात्, खपुष्पवदिति, प्राक्तनाद्विशुद्धत्वाद्विशेषिततरोऽस्याभ्युपगमः, समानलिङ्गवचनानां तु बहूनामपि शब्दानामेकमभिधेयमसौ मन्यते, यथेन्द्रः शक्रः पुरन्दर इत्यादि, इति गाथार्थः ॥ 'वत्थूओ' इत्यादि, वस्तुनः- इन्द्रादेः सङ्क्रमणमन्यत्र शक्रादाविति दृश्यं भवति अवस्त्वसंभवतीत्यर्थः, केत्याह-नये समभिरूढे, समभिरूढनयमतेनेत्यर्थः, तत्र
१ श्रुतज्ञाने च नियुक्तं, (नियोक्तुं योग्यं ) केवले तदनन्तरम् । आत्मनश्च परेषां च यस्मात्तत् परिभावकम् ॥ १ ॥
For Private & Personal Use Only
वृत्तिः उपक्रमे नयाधि०
॥ २६५ ॥
w.jainelibrary.org