SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ अत एव सगृह्णाति सामान्यरूपतया सर्व वस्तु क्रोडीकरोतीति सङ्ग्रहोऽयमुच्यते, युक्तिश्चात्र लेशतः प्राग्दर्शितैव, 'वच्चईत्यादि, निराधिक्ये चयनं चया-पिण्डीभवनं अधिकश्चयो निश्चयः-सामान्यं विगतो निचयो विनिश्चयो-सामान्याभावः तदर्थ-तन्निमित्तं ब्रजति-प्रवर्तते, सामान्याभावायैव सर्वदा यतते व्यव-11 हारो नय इत्यर्थः, क?-'सर्वद्रव्येषु' सर्वद्रव्यविषये, लोके हि घटस्तम्भाम्भोरुहादयो विशेषा एव प्रायो जलाहरणादिक्रियासूपयुज्यमाना दृश्यन्ते न पुनस्तदतिरिक्तं सामान्यम्, अतो लोकव्यवहारानङ्गत्वात्सामान्य-18 मसौ नेच्छतीति भावः, अत एव लोकव्यवहारप्रधानो नयो व्यवहारनयोऽसावुच्यते, युक्तिश्चात्रापि लेशतः प्रागुक्तैव, अथवा विशेषेण निश्चयो विनिश्चय:-आगोपालाद्यङ्गनाद्यवबोधो न कतिपयविद्वत्सम्बद्धः तदर्थ ब्रजति व्यवहारनयः सर्वद्रव्येषु, इदमुक्तं भवति-यद्यपि निश्चयेन घटादिवस्तूनि सर्वाण्यपि प्रत्येकं पञ्चवनि द्विगन्धानि पञ्चरसान्यष्टस्पर्शानि तथाऽपि गोपालाङ्गनादीनां यत्रैव कचिदेकस्मिन् स्थले कालनीलव दौ विनिश्चयो भवति तमेवासौ सत्त्वेन प्रतिपद्यते न शेषान्, लोकव्यवहारपरत्वादेवेति गाथार्थः॥ 'पञ्चुप्पन्नगाहा, साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानकालभावीत्यर्थः, तद् ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिमुणितव्यः, तत्रातीतानागताभ्युपगमकुटिलतापरिहारेण ऋजु-अकुटिलं वर्तमानकालभावि वस्तु सूत्रयतीति ऋजुसूत्रः, अतीतानागतयोविनाशानुत्पत्तिभ्यामसत्त्वाद्, असदभ्युपगमश्च कुटिल इति भावः, अथवा ऋजु-अवकं श्रुतमस्येति ऋजुश्रुतः, शेषज्ञानैर्मुख्यतया तथाविधपरोपकारासाधनात् श्रुतज्ञा पः, तद् प्रहारपरत्वादेवान स्थले कालपञ्चव, अनु. ४५ Jain Education For Private Personel Use Only FDainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy