SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ वृत्तिः अनुयो. मलधा रीया उपक्रमे प्रमाणद्वारं ॥२४२॥ देशराशिः एते च प्रत्येकमनन्तखरूपाः षट् प्रक्षेपाः, एतैश्च प्रक्षिप्सर्यो राशिजोयते स पुनरपि वारत्रयं पूर्ववद्वय॑ते, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति, ततश्च केवलज्ञानकेवलदर्शनपर्यायाः प्रक्षिप्यन्ते, एवं च सत्युत्कृष्टमनन्तानन्तकं संपद्यते, सर्वस्यैव वस्तुजातस्य सङ्गृहीतत्वात्, अतः परं वस्तुसत्त्वस्यैव सङ्ख्याविषयस्याभावादिति भावः, सूत्राभिप्रायस्त्वित्थमप्यनन्तानन्तकमुत्कृष्टं न प्राप्यते, अजघन्योत्कृष्टस्थानानामेव तत्र प्रतिपादितत्वादिति, तत्त्वं तु केवलिनो विदन्तीति भावः । सूत्रे च यत्र कुत्रापि अनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम्। तदेवं प्ररूपितमनन्तानन्तकं, तत्परूपणे च समाप्ता गणनसङ्ख्या ॥ अथ भावसख्यानिरूपणार्थमाह-से किं तं भावसंखा इत्यादि, इह सङ्ख्या(खा)शब्देन प्रागुक्तयुक्त्या शखाः परिगृह्यन्ते, अत एव नामस्थापनादिबहुविचारविषयत्वात् सङ्ख्याप्रमाणात् गुणप्रमाणं पृथगुक्तम्, अन्यथा सङ्ख्याया अपि गुणत्वाद् गुणप्रमाणे एवान्तर्भावः स्यादिति । तत्र भावशङ्खखरूपं दर्शयितुमाह-जे इमें इत्यादि, ये इमे-प्रज्ञापकप्रत्यक्षा लोकप्रसिद्धा वा 'जीवा' आयुःप्राणादिमन्तः 'शङ्खगतिनाम* गोत्राणि'इति शङ्खगतिनामगोत्रशब्देनेह शङ्खमायोग्यं तिर्यग्गतिनाम गृह्यते, तस्य चोपलक्षणार्थत्वाद् द्वीन्द्रियजात्यौदारिकशरीराङ्गोपाङ्गादीन्यपि गृह्यन्ते, ततश्च शङ्खप्रायोग्यं तिर्यग्गत्यादिनामकर्म नीचैर्गोत्रलक्षणं गोत्रकर्म च विपाकतो वेदयन्ति ये जीवास्त एते भावशङ्खाः प्रोच्यन्ते, तदेवं समाप्तं सङ्ख्याप्रमाणम्, अतो निगमयति-से तं संखप्पमाणे त्ति, तत्समाप्तौ चावसितं भावप्रमाणमित्याह-से तं भावप्पमाणे'त्ति, HAS435ॐॐॐ ॥२४२॥ Jain Education a l For Private Personal Use Only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy