________________
वृत्तिः उपक्रमे प्रमाणद्वारं
अनुयो. ऽपि प्रक्षिप्यन्ते, यत्र च द्वीपे समुद्रे वा ते इत्थं प्रक्षिप्यमाणा निष्ठां यान्ति तत्पर्यवसानो जम्बूद्वीपादिरनमलधा- वस्थितपल्यः कल्प्यते, अत एवाह-एस णं एवइए खेत्ते पल्ले त्ति, यावन्तो द्वीपसमुद्रास्तैः सर्षपैः 'अप्फुरीया
पण'त्ति व्याप्ता इत्यर्थः, एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपल्यः, सर्षपभृतो बुद्ध्या परिकल्प्यत इत्यर्थः, ततः
किमित्याह-पढमा सलाग'त्ति ततः शलाकापल्ये प्रथमशलाका-एकः सर्षपः प्रक्षिप्यत इत्यर्थः, 'एवइयाणं ॥२३६॥
सलागाणं असंलप्पा लोगा भरियत्ति लोक्यन्ते-केवलिना दृश्यन्त इति लोका-व्याख्यानादिह वक्ष्यमाणाः शलाकापल्यरूपा गृह्यन्ते, ते चैकदशशतसहस्रलक्षकोटिप्रकारेण संलपितुमशक्या असंलप्याः, अतिबहव इत्यर्थः, यथोक्तशलाकानामसत्कल्पनया भृताः-पूरितास्तथाप्युत्कृष्टं सङ्ख्येयकं न प्रामोति, आकण्ठपूरिता अपि हि लोकरूड्या भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सख्येयकं संपद्यते, किन्तु यदा सप्रशिखतया तथा ते नियन्ते यथा नैकोऽपि सर्षपस्तत्रापले माति तदा तद्भवतीति भावः, ननु सप्रशिखतया सर्वथा अभृतमपि लोके किं भृतमुच्यते?, सत्यं, प्रोच्यत एव, तथा चात्रार्थे दृष्टान्तं दिदर्शयिषुराह-यथा कोऽत्र दृष्टान्तः?, इति शिष्येण पृष्टे सत्युत्तरमाह-तद्यथा नाम कश्चिन्मञ्चः स्यात्, स चामलकानां भृत इति शिखामन्तरेणापि
लोकेन व्यपदिश्यते, अथ च तत्रैकमामलकं प्रक्षिप्तं तन्मातमपरमपि प्रक्षिप्तं तदपि मातमन्यदपि प्रक्षिप्तं त18दपि मातमेवमपरापरैः प्रक्षिप्यमाणैः भविष्यति तदामलकं येनासौ मञ्चो भरिष्यति, यच्च तदुत्तरकालं तत्र लामञ्चे न मास्यति, इत्थं चात्राप्यपरापरैर्यथोक्तशलाकारूपैः प्रक्षिप्सर्यदा संलपितुमशक्या अतिबहवः सप्र-14
NOTESHES
॥२३६ ॥
Jain Education Eternation
For Private Personal Use Only
inelibrary.org