________________
पाहुडसंखा पाहुडिआसंखा पाहुडपाहुडिआसंखा वत्थुसंखा, से तं दिट्टिवायसुअपरिमाणसंखा । से तं परिमाणसंखा । से किं तं जाणणासंखा?, २ जो जं जाणइ तंजहा -सदं सदिओ गणियं गणिओ निमित्तं नेमित्तिओ कालं कालणाणी वेजयं वेज्जो, से
तं जाणणासंखा। संख्यायते अनयेति सङ्ख्या, परिमाणं पर्यवादि तद्रूपा सङ्ख्या परिमाणसङ्ख्या, सा च कालिकश्रुतदृष्टिवादविषयत्वेन द्विविधा, तत्र कालिकश्रुतपरिमाणसङ्ख्यायां पर्यवसङ्ख्या इत्यादि, पर्यवादिरूपेण-परिमाणविशेषेण कालिकश्रुतं संख्यायत इति भावः, तत्र पर्यवाःपर्यायाधर्मा इतियावत् तद्रूपा सङ्ख्या पर्यवसङ्ख्या सा च कालिकश्रुते अनन्तपर्यायात्मिका द्रष्टव्या, एकैकस्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादिवस्तुनः प्रत्येकमनन्तपर्यायत्वात्, एवमन्यत्रापि भावना कार्या, नवरं सङ्ख्येयान्यकाराद्यक्षराणि, व्याद्यक्षरसंयोगरूपाः
सङ्ख्येयाः सङ्घाताः, सुप्तिङन्तानि समयप्रसिद्धानि वा सङ्ख्येयानि पदानि, गाथादिचतुर्थांशरूपाः सङ्ख्येयाः है पादाः, सङ्ख्येया गाथाः, सङ्ख्येयाश्च श्लोकाः प्रतीताः, एवं छन्दोविशेषरूपाः सङ्ख्येया वेष्टकाः, निक्षेपनियु
त्युपोद्घातनियुक्तिसूत्रस्पर्शकनियुक्तिलक्षणा त्रिविधा नियुक्तिः, व्याख्योपायभूतानि सत्पदप्ररूपणतादीन्युपक्रमादीनि वा सङ्ख्येयान्यनुयोगद्वाराणि, सङ्ख्यया उद्देशाः, सङ्ख्येयान्यध्ययनानि, सङ्ख्येयाः श्रुतस्कन्धाः,
Join Education
For Private
Personel Use Only
Mainelibrary.org