________________
अनुयो. मलधारीया
वृत्तिः उपक्रमे प्रमाणद्वारं
॥२३॥
भिहितनामावश्यकादिविचारानुसारतः खयमेव भावनीयं यावत् 'जाणयसरीरभविअसरीरवइरित्ते वसंखे |तिविहे पण्णत्ते' इत्यादि, इह यो जीवो मृत्वाऽनन्तरभवे शोषु उत्पत्स्यते स तेष्वबद्धायुष्कोऽपि जन्मदिनादारभ्य एकभविकः स शङ्ख उच्यते, यत्र भवे वर्तते स एवैको भवः शङ्खघुत्पत्तेरन्तरेऽस्तीतिकृत्वा, एवं शङ्खमायोग्यं बद्धमायुष्कं येन स बद्धायुष्कः, शङ्खभवप्राप्तानां जन्तूनां ये अवश्यमुदयमागच्छतस्ते द्वीन्द्रियजात्या|दिनीचैर्गोत्राख्ये अभिमुखे जघन्यतः समयेनोत्कृष्टतोऽन्तर्मुहर्तमात्रेणैव व्यवधानात् उदयाभिमुखप्राप्ते नामगोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्रः, तदेष त्रिविधोऽपि भावशङ्खताकारणत्वात् ज्ञशरीरभव्यशरीरव्य|तिरिक्तो द्रव्यशङ्ख उच्यते, यद्येवं द्विभविकत्रिभविकचतुर्भविकादिरपि कस्मान्नेत्थं व्यपदिश्यत इति चेत्, नैवं,
तस्यातिव्यवहितत्वेन भावकारणताऽनभ्युपगमात्, तत्कारणस्यैव द्रव्यत्वाद, इदानी त्रिविधमपि शङ्ख कालतः |क्रमेण निरूपयन्नाह-एगभविए णं भंते !' इत्यादि, एकभविकः शङ्को भदन्त ! एकभविक इति व्यपदेशेन कालतः कियचिरं भवतीति, अनोत्तरं-जहणेण' मित्यादि, इदमुक्तं भवति-पृथिव्याद्यन्यतरभवेऽन्तर्मुहूर्त | जीवित्वा योऽनन्तरं शोषूत्पद्यते सोऽन्तर्मुहूर्तमेकभविकः शङ्खो भवति, यस्तु मत्स्याद्यन्यतमभवे पूर्वकोटीं जीवित्वैतेषूत्पद्यते तस्य पूर्वकोटिरेकभविकत्वे लभ्यते, अत्र चान्तर्मुहर्तादपि हीनं जन्तूनामायुरेव नास्तीति जघन्यपदेऽन्तर्मुहूर्तग्रहणं, यस्तु पूर्वकोट्यधिकायुष्कः सोऽसङ्ख्यातवर्षायुष्कत्वाद्देवेष्वेवोत्पद्यते न शर्केष्वित्युत्कृष्टपदे पूर्वकोट्युपादानम्, आयुर्वन्धं च प्राणिनोऽनुभूयमानायुषो जघन्यतोऽप्यन्तर्मुहूर्ते शेष एव कुर्व
॥२३१॥
Jain Education
a
l
For Private Personel Use Only
R
ainelibrary.org