SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधारीया ॥२२५॥ वसतिः-निवासस्तेन दृष्टान्तेन नयविचार उच्यते, तद्यथानामकः कश्चित्पुरुषः पाटलिपुत्रादौ वसन्तं क वृत्तिः ञ्चित्पुरुष वदेत्-क भवान् वसति?, तत्राविशुद्धनैगमो.भणति-अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्यु उपक्रमे त्तरं प्रयच्छति-लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकलोकादनान्तरत्वाद, इत्थमपि च व्य- प्रमाणद्वारं वहारदर्शनात्, विशुद्धनैगमस्त्वतिव्याप्तिपरत्वादिदमसङ्गतं मन्यते, ततस्तिर्यल्लोके वसामीति संक्षिप्योत्तरं ददाति, विशुद्धतरस्त्विदमप्यतिव्याप्तिनिष्ठं मन्यते ततो जम्बूद्वीपे वसामीति संक्षिप्ततरमाह, एवं भारतवर्षदक्षिणार्द्धभरतपाटलिपुत्रदेवदत्तगृहगर्भगृहेष्वपि भावनीयम्, एवं 'विसुद्धस्स गमस्स वसमाणो वसई एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरनैगमस्य वसन्नेव वसति, नान्यथा, इदमुक्तं भवति-यत्र गृहादौ सर्वदा निवासित्वेनासौ विवक्षितः तत्र तिष्ठन्नेव एष तत्र वसतीति व्यपदिश्यते, यदि पुनः कारणवशतोऽन्यत्र सारथ्यादौ वर्तते तदा तत्र विवक्षिते गृहादी वसतीति न प्रोच्यते, अतिप्रसङ्गादिति भावः । एवमेवें'त्यादि, लोकव्यवहारनिष्ठो हि व्यवहारनयो, लोके च नैगमोक्तप्रकाराः सर्वेऽपि दृश्यन्ते इति भावः, अथ चरमनैगमोक्तप्रकारो लोके नेष्यते, कारणतो ग्रामादौ वर्तमानेऽपि देवदत्ते पाटलिपुत्रे एष वसतीति व्यपदेशदर्श-18 नादिति चेत्, नैतदेवं, प्रोषिते देवदत्ते स इह वसति न वेति केनचित्पृष्टे प्रोषितोऽसौ नेह वसतीत्यस्यापि लो-त कव्यवहारस्य दर्शनादिति । 'संगहस्से'त्यादि, प्राक्तनात् विशुद्धत्वात् सङ्ग्रहनयस्य गृहादौ तिष्ठन्नपि संस्तारकारूढ एव शयनक्रियावान् वसतीत्युच्यते, इदमुक्तं भवति-संस्तारकेऽवस्थानादन्यत्र निवासार्थ एव न घ USLOCRACANCICROGRAMRCHURCEO ॥२२५॥ Jain Education a l For Private & Personel Use Only Mw.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy