________________
+
वृत्तिः उपक्रमे
4564
अनुयोग षमटवीं गच्छन्तं दृष्ट्वा कश्चिदन्यो वदेत्-क भवान् गच्छति?, तत्राविशुद्धनगमो भणति-अविशुद्धनैगमनयमलधा
मतानुसारी सन्नसौ प्रत्युत्तरयतीत्यर्थः, किमित्याह-प्रस्थकस्य गच्छामि, इदमुक्तं भवति-नके गमा-वस्तुपरिरीया च्छेदा यस्य अपि तु बहवः स निरुक्तवशात् ककारलोपतो नैगम उच्यते, अतो यद्यप्यत्र प्रस्थककारणभूतकाष्ठ- प्रमाणद्वारं
निमित्तमेव गमनं, न तु प्रस्थकनिमित्तं, तथाऽप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात्कारणे कार्योपचारात् तथा॥२२३॥
व्यवहारदर्शनादेवमप्यभिधत्तेऽसौ-प्रस्थकस्य गच्छामीति,तं च कश्चित् छिन्दन्तं, वृक्षमिति गम्यते, पश्येद्, दृष्ट्वा |च वदेत्-किं भवाँश्छिनत्ति?, ततः प्राक्तनात् किञ्चिद्विशुद्धनैगमनयमतानुसारी सन्नसौ भणति-प्रस्थकं छिनद्मि, अत्रापि कारणे कार्योपचारात्तथाव्यवहृतिदर्शनादेव काष्ठेऽपि छिद्यमाने प्रस्थकं छिनमीत्युत्तरं, केवलं काष्ठस्य प्रस्थकं प्रति कारणताभावस्यात्र किञ्चिदासन्नत्वाद्विशुद्धत्वं, प्राक् पुनरतिव्यवहितत्वात् मलीमसत्वम् , एवं पूर्वपूर्वापेक्षया यथोत्तरस्य विशुद्धता भावनीया, नवरं तक्ष्णुवन्तं-तनूकुर्वन्तम् उत्किरन्तं-वेधनकेन मध्याद्विकिरन्तं विलिखन्तं-लेखन्या मृष्टं कुर्वाणम्, एवमनेन प्रकारेण तावन्नेयं यावद्विशुद्धतरनैगमस्य 'ना
माउडित्ति आकुहितनामा प्रस्थकोऽयमित्येवं नामाङ्कितो निष्पन्नः प्रस्थक इति । एवमेव व्यवहारस्यापीति, 18| लोकव्यवहारप्राधान्येनायं व्यवहारनयः, लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थकव्यवहारो दृश्यतेऽतो व्यवहा-18 रनयोऽप्येवमेव प्रतिपद्यते इति भावः । 'संगहस्से त्यादि, सामान्यरूपतया सर्व वस्तु संगृह्णाति-क्रोडीकरो
॥२२३॥ तीति सङ्ग्रहस्तस्य मतेन चितादिविशेषणैर्विशिष्ट एव प्रस्थो भवति, नान्यः, तत्र चितो-धान्येन व्याप्तः, स
JainEducation intake
For Private Personal Use Only
Finelibrary.org