________________
हारकाः पञ्चापि प्रायो निक्कतपः कृता अनुपरिहारिकतामणानां मध्यादेकः कल्पनि
प्रतिपन्नपूर्व तदन्तिके षा नवको गणः परिहारविशुद्धिचारित्रं प्रतिपद्यते, नान्यस्य समीपे, तत्रैकः कल्पस्थितो यदन्तिके सर्वा सामाचारी क्रियते, चत्वारस्तु साधवो वक्ष्यमाणं तपः कुर्वन्ति, ते च परिहारिका इत्युच्यन्ते, अन्ये तु चत्वारो वैयावृत्त्यकर्तृत्वं प्रतिपद्यन्ते, ते चानुपरिहारिका इति व्यपदिश्यन्ते, तत्र परिहारकाणां तपः प्रोच्यते-ग्रीष्मे जघन्यतश्चतुर्थ मध्यमपदे षष्ठं उस्कृष्टतस्त्वष्टमं, शिशिरे जघन्यमध्यमोत्कृष्टपदेषु यथासङ्ख्यं षष्ठमष्टमं दशमंच, बर्षासु जघन्यादिपवनयेऽपि यथाक्रममष्टमं दशमं द्वादशं च, शेषास्तु कल्पस्थितानुपरिहरिकाः पश्चापि प्रायो नित्यभक्ता नोपवासं कुर्वन्ति, भक्तं च पश्चानामप्याचामाम्लमेव, नान्यत्, ततः परिहारिकाः षण्मासान्यावद्यथोक्तं तपः कृत्वा अनुपरिहारिकता प्रतिपद्यन्ते, अनुपरिहारिकास्तु परिहारिकतां, तैरपि षण्मासान्यावद्यदा तपः कृतं भवति, तदा कृततपसामष्टानां मध्यादेकः कल्पस्थितो व्यवस्थाप्यते, अग्रेतनचासौ षड् मासान्याषचथोक्तं सपः करोति, शेषास्तु सप्तानुचरतामाश्रयन्ति, एवं चाष्टादशभिर्मासैरयं कल्पः समाप्यते, तत्समाप्तौ च भूयस्तमेव कल्पं जिनकल्पं वा प्रतिपचेरन् गच्छं वा प्रत्यागच्छेयुरिति त्रयी गतिः, अपरं चैतचारित्रं छेदोषस्थापमचरणवतामेव भवति, नान्येषामित्यलमतिप्रसङ्गेन, तदेवमिह यो यस्तपः कृत्वा अनुपरिहारिकतां कल्पस्थिततां वाऽङ्गीकरोति तत्सम्बन्धि परिहारविशुद्धिकं निर्विष्टकायिकमुच्यते, ये तु तपः कुर्वन्ति तत्सम्बन्धि निर्षिश्यमानकमिति स्थितम् । संपरैति-पर्यटति संसारमनेनेति सम्परायःकोषाविकषापा, लोभांशमात्रामशेषतया सूक्ष्मा सम्परायो यत्र तत्सूक्ष्मसम्परायम्, इदमपि सलिश्यमा
Join Education
For Private & Personal Use Only
jainelibrary.org