________________
वृत्तिः
अनुयो मलधा
रीया
॥२२१॥
चरन्त्यनिन्दितममेमेति चरित्रं, तदेव चारित्रं, चारित्रमेव गुणः२ स एव प्रमाणं २-सावद्ययोगविरतिरूपं, तच पञ्चविध सामायिकादि, पञ्चविधमप्येतदविशेषतः सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणं पञ्चधा
उपक्रमे भिद्यते, सत्राचं विशेषाभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति, सामायिकं पूर्वोक्तशब्दार्थ,
प्रमाणद्वारं तचेत्वरं यावत्कथिकंच, लत्रेत्वरं भाविव्यपदेशान्तरत्वात् खल्पकालं, तचायचरमतीर्थकरकालयोरेव यावदद्यापि महाब्रतानि मारोप्यन्ते तापच्छिष्यस्य संभवति, आत्मनः कथां यावदास्ते सद् यावत्कथं-यावज्जीवमित्यर्थः, यावल्कथमेव यावत्कथिकम्, एतच्च भरतैरावतेष्वाद्यचरमवर्जमध्यमतीर्थकरसाधूनां महाविदेहतीर्थकरयतीनां च संभवति, पूर्वपर्यायस्य छेदेनोपस्थापनं महाव्रतेषु यत्र तच्छेदोपस्थापनं, भरतैरावतप्रथमपश्चिमती-| र्थकरतीर्थ एव, नान्यत्र, तच्च सातिचारं निरतिचारं च, तत्रेवरसामायिकस्य शैक्षकस्य यदारोप्यते तीर्थान्तरं वा सङ्क्रामतः साधोर्यथा पार्श्वनाथतीर्थान्महाधीरतीर्थ सङ्कामतस्तभिरतिचारं, मूलगुणघातिनस्तु यत् पुनव्रतारोपर्ण तत्सातिचारं, परिहारः-सपोविशेषस्तेन विशुद्धं, अथवा परिहारः-अनेषणीयादेः परित्यागोविशेषेण शुद्धो यत्र तत्परिहारविशुद्धं तदेव परिहारविशद्धिक, तदपिद्विविधं-निर्विश्यमानक निर्विष्टकायिकं च, तत्र निर्विश्यमानम्-आसेव्यमानम्, अथवा तदनुष्ठातारः साधवो निर्विश्यमानकाः, तत्सहयोगात्तदपि निर्विश्यमानकं, निर्विष्ट-आसेवितः प्रस्तुततपोविशेषः कायो येषां ते निर्विष्टकायाः, त एव निर्विष्टकायिकाः साधवः, तदाश्र-18|| यत्वात् प्रस्तुतचारित्रमपि निर्विष्टकायिकम्, इदमत्र हृदयम्-तीर्थकरचरणमूले येन तीर्थकरसमीपे अदः
॥२२१॥
in Education in
a
For Private Personel Use Only
12M.jainelibrary.org