________________
Jain Education
उपमीयते - सदृशतया वस्तु गृह्यते अनयेत्युपमा सैवौपम्यं तच्च द्विविधं - साधर्म्येणोपनीतम् - उपनयो यत्र तत्साधम्र्योपनीतं, वैधर्म्येणोपनीतम् - उपनयो यत्र तद्वैधर्म्यापनीतं, तत्र साधर्म्यापनीतं त्रिविधं किञ्चित्साधर्म्यादिभेदात्, किञ्चित्साधर्म्यं च मन्दरसर्षपादीनां तत्र मन्दरं सर्षपयोर्द्वयोरपि मूर्तत्वं सादृश्यं, समुद्रगोष्पदयोः सोदकत्वमात्रम्, आदित्यखद्योतयोराकाशगमनोद्योतकत्वरूपं, चन्द्रकुमुदयोः शुक्लत्वमिति । 'से किं तं पायसाहम्मे' इत्यादि, खुरककुदविषाणलाङ्गूलादेर्द्वयोरपि समानत्वात्, नवरं सकम्बलो गौर्वृत्तकण्ठस्तु गवय इति प्रायः साधर्म्यता । सर्वसाधर्म्यं तु क्षेत्रकालादिभिर्भेदान्न कस्यापि केनचित्सार्द्ध संभवति, सम्भवे त्वेकताप्रसङ्गः, तर्ह्यपमानस्य तृतीयभेदोपन्यासोऽनर्थक एवेत्याशङ्क्याह- तथापि तस्य-विवक्षितस्यार्हदादेस्तेनैव - अर्हदादिना औपम्यं क्रियते, तद्यथा - 'अर्हता अर्हत्सदृशं कृतं तत्किमपि सर्वोत्तमं तीर्थप्रवर्तनादि कार्यमर्हता कृतं यदईन्नेव करोति नापरः कश्चिदिति भावः एवं च स एव तेनोपमीयते, लोकेऽपि हि केनचिदत्यद्भुते कार्ये कृते वक्तारो दृश्यन्ते तत्किमपीदं भवद्भिः कृतं यद्भवन्त एव कुर्वन्ति नान्यः कश्चिदिति, एवं चक्रवर्तिवासुदेवादिष्वपि वाच्यम् । 'से किं तं वेहम्मोवणीए' इत्यादि, यथेति - यादृशः शबलाया गोरपत्यं शाबलेयो न तादृशो बहुलाया अपत्यं बाहुलेयो, यथा चायं न तथेतरः, अत्र च शेषधर्मैस्तुल्यत्वाद्भिन्ननिमित्तजन्मादिमात्रतस्तु वैलक्षण्यात् किश्चिद्वैधर्म्य भावनीयम् । 'से किं तं पायवेहम्मे' इत्यादि, अत्र वायसपायसयोः सचेतनत्वाचेतनत्वादिभिर्बहुभिर्धर्मैर्विसंवादात् अभिधानगतवर्णद्वयेन सत्त्वादिमात्रतश्च साम्यात्प्रायोवैधर्म्यता
For Private & Personal Use Only
w.jainelibrary.org