________________
अनुयो. मलधा
वृत्तिः उपक्रमे
रीया
॥२११॥
OSARASARANASAROS
२ तिविहे पण्णत्ते, तंजहा-ओहिणाणपञ्चक्खे मणपजवनाणपच्चक्खे केवलणाणपञ्चक्खे, से तं णोइंदियपञ्चक्खे, से तं पञ्चक्खे।
प्रमाणद्वारं जीवस्य गुणा-ज्ञानादयस्तद्रूपं प्रमाणं जीवगुणप्रमाणं, तच्च ज्ञानदर्शनचारित्रगुणभेदानिधा, तत्र ज्ञानरूपो कायो गुणस्तद्रूपं प्रमाणं चतुर्विधं, तद्यथा-प्रत्यक्षमनुमानमुपमानमागमः, तत्र 'अशू व्याप्ता वित्यस्य धातोर-10
इनुते-ज्ञानात्मना अर्थान् व्यामोतीति अक्षो-जीवः 'अश भोजने' इत्यस्य वा अनाति-भुङ्क्ते पालयति वा सवार्थानित्यक्षो-जीव एव प्रतिगतम्-आश्रितमक्षं प्रत्यक्षमिति, अत्यादयः क्रान्ताद्यर्थे द्वितीयये (का० रू०४३०)ति समासः, जीवस्यार्थसाक्षात्कारित्वेन यद् ज्ञानं वर्तते तत्प्रत्यक्षमित्यर्थः, अन्ये त्वक्षमक्षं प्रति वर्तत इत्यव्ययीभावसमासं विदधति, तच न युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वात् प्रत्यक्षशब्दस्य त्रिलिङ्गता न स्यात् , दृश्यते चेयं, प्रत्यक्षा बुद्धिः प्रत्यक्षो बोधः प्रत्यक्ष ज्ञानमिति दर्शनात्, ततो यथादर्शितस्तत्पुरुष एवायं, तच प्रत्यक्षं द्विविधम्-इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च, अत्रेन्द्रियं-श्रोत्रादि तन्निमित्तं-सहकारिकारणं | यस्योत्पित्सोस्तदलिङ्गिकं शब्दरूपरसगन्धस्पर्शविषयज्ञानमिन्द्रियप्रत्यक्षम्, इदं चेन्द्रलक्षणजीवात् परं व्यतिरिक्तनिमित्तमाश्रित्योत्पद्यते इति धूमादग्निज्ञानमिव वस्तुतोऽर्थसाक्षात्कारित्वाभावात् परोक्षमेव, केवलं
१तनिवृत्तं प्र.
Shin Educatan
For Private & Personal use only
www.jainelibrary.org