SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ SNLOCROSORROCEROSCOROSCOM अभियुक्तेन भावनीयानि, तदेवं जघन्यपदमुक्तम्, अथोत्कृष्टपदमभिधित्सुराह-'उक्कोसपए असंखेज'त्ति. उत्कृष्टपदे मनुष्यबद्धान्यौदारिकशरीराण्यसङ्ख्येयानि कालतोऽसङ्ख्ययोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्त्वेकस्मिन् मनुष्यशरीररूपे प्रक्षिप्ते तैर्मनुष्यशरीरैरका नभःप्रदेशश्रेणिरपहियते, कियता कालेनेत्याह-असन्ख्येयोत्सर्पिण्यवसर्पिणीभिः, कियता क्षेत्रखण्डापहारेणेत्याह-'अंगुलपढमवग्गमूलं तइयवग्गमूलपडप्पण्णन्ति श्रेणेरडलप्रमाणे क्षेत्रे यः प्रदेशराशिस्तस्य यत्प्रथमं वर्गमूलं तत्तृतीयवर्गमूलप्रदेशराशिना गुण्यते, गुणिते च यः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डमेकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति, इदमुक्तं भवति-श्रेणेमध्याद् यथोक्तप्रमाणं क्षेत्रखण्डं योकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति तदाऽसख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वाऽपि श्रेणिरपहियते यद्येक मनुष्यशरीरं स्यात्, तन नास्ति, सर्वोस्कृष्टानामपि समुदितगर्भसंमूर्च्छजमनुष्याणामेतावतामेव भावादिति । तदेवं मनुष्याणां बद्धान्यौदारिकशरीराण्युक्तानि, मुक्तानि वोघवद्राव्यानि । अध वैक्रियाण्याह-केवइया वेउब्विअसरीरा इत्यादि, वैक्रियाण्यमीषां सङ्ख्येयान्येव बद्धानि प्राप्यन्ते गर्भजेषु, तत्रापि वैक्रियलब्धिमत्सु तत्रापि पृच्छासमये कियत्खेव तेषु तद्वन्धसम्भवादिति, तानि च प्रतिसमयमेकैकशोऽपहियमाणानि असख्येयेन कालेनापहियन्ते, मुक्तान्योघवद्वाच्यानि । आहारकाणि तु बद्धानि मुक्तानि च यथौधिकानि तथैव, तैजसकार्मणानि तु यथैषामेवौदारिकाणि । PR For Private & Personal Use Only nin Educat w w.jainelibrary.org i onal
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy