________________
अनु. ३५
त्सर्पिण्यवसर्पिणीभिः, केन पुनः क्षेत्रप्रविभागेन कालप्रविभागेन च ?, एतावता कालेनायमपहियत इत्याहअङ्गुलमतरलक्षणस्य क्षेत्रस्य आवलिकालक्षणस्य च कालस्य योऽसङ्ख्येयभागरूपः प्रविभागः - अंशस्तेन, इदमुक्तं भवति यद्येकैकेन द्वीन्द्रियशरीरेण प्रतरस्यैकैको ऽङ्गुलासङ्ख्येयभाग एकैकेनावलिकाऽसङ्ख्येयभागेन क्रमशोऽपहियते तदाऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वोऽपि प्रतरो निष्ठां याति, एवं प्रतरस्यैकैकस्मिनङ्गुला सङ्ख्येयभागे एकैकेनावलिकाऽसङ्येयभागेन प्रत्येकं क्रमेण स्थाप्यमानानि द्वीन्द्रियशरीराण्य सङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्व प्रतरं पूरयन्तीत्यपि द्रष्टव्यं वस्तुत एकार्थत्वादिति, मुक्तौदारिकवैक्रियाहारकाणि पृथ्वीकायिकवद्वाच्यानि, तैजसकार्मणानि तु यथैषामेवौदारिकाणि । त्रीन्द्रियचतुरिन्द्रियाणामप्येवमेव वाच्यम् । पश्ञ्चेन्द्रियतिरश्चामपीत्थमेव, नवरमेतेषु केषाञ्चिद्वैक्रियलब्धिसम्भवतो बद्धान्यपि वैक्रियशरीराणि लभ्यन्ते, अतस्तत्सङ्ख्या निरूपणार्थमाह – 'पंचिंदियतिरिक्खजोणिआणं भंते! केवइया वेडव्वियसरीरा ?" इत्यादि, इह च सामान्येनासङ्ख्येयतामात्राव्यभिचारतस्त्रीन्द्रियादीनामतिदेशो मन्तव्यो न पुनः सर्वथा परस्परं सङ्ख्यासाम्यमेतेषां यत उक्तम् - "एऐसि णं भंते! एगिंदियबे इंदियतेइंदियचउरिदियपंचिंदियाणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वथोवा पंचिंदिया चउरिं
१ सामान्यातिदेशे विशेषानतिदेश इति न्यायात् २ एतेषां भदन्त । एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाणां कतरे कतरेभ्यः अल्पा वा बहवो वा तुल्या वा विशेषाधिका वा ?, गौतम ! सर्वस्तोकाः पचेन्द्रियाः चतुरिन्द्रिया विशेषाधिकाः त्रीन्द्रिया विशेषाधिका द्वीन्द्रिया विशेषाधिका एकेन्द्रिया अनन्तगुणाः.
Jain Education International
For Private & Personal Use Only
44444444464
www.jainelibrary.org