________________
शास्त्रान्तरे जघन्यतः समयं उत्कृष्टतस्तु षण्मासान्यावदभिहितम्, अत उक्तं-बद्धानि कदाचित् सन्ति कदाचिन्न सन्ति, यदि भवन्ति तदा जघन्यत एक द्वे त्रीणि वा, उत्कृष्टतस्तु सहस्रपृथक्त्वं, द्विप्रभृत्या नवभ्यः समयप्रसिद्धया पृथक्त्वमुच्यते, मुक्तानि यथौदारिकाणि तथैव, नवरमनन्तकस्यानन्तभेदात्तदेवेह लघुतरं द्रष्टव्यम् ३ । तथैव तैजसान्याह-केवइया णं भंते! तेयगे'त्यादि, एतानि बद्धान्यनन्तानि भवन्ति, कालतोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशिसख्यानि क्षेत्रतोऽनन्तलोकप्रदेशराशिमानानि द्रव्यतः सिद्धेभ्योऽनन्तगुणानि अनन्तभागन्यूनसर्वजीवसङ्ख्याप्रमाणानि, तत्स्वामिनामनन्तत्वात्, नन्वौदारिकस्यापि स्वामिनो विद्यन्तेऽनन्ता न च तान्येतावत्सङ्ख्यान्युक्तानि, अत्रोच्यते, औदारिकं मनुष्यतिरश्चामेव भवति, तत्रापि साधारणशरीरिणामनन्तानामेकैकमेव, इदं चतुर्गतिकानामप्यस्ति, साधारणशरीरिणां च प्रतिजीवमेकैकं प्राप्यते, ततस्तैजसानि सर्वसंसारिजीवसङ्ख्यानि भवन्ति, संसारिणश्च जीवाः सिद्धेश्योऽनन्तगुणाः, अत एतान्यपि सिद्धेश्योऽनन्तगुणान्युक्तानि; सर्वजीवसङ्ख्यां तु न प्रामुवन्ति, सिद्धजीवानां तदसम्भवात्, सिद्धाश्च शेषजीवानामनन्तभागे वर्तन्ते, अतः सिद्धजीवलक्षणेनानन्तभागेन हीना ये सर्वजीवास्तत्सङ्ख्यान्यभिहितानि, मुक्तान्यपि अनन्तानि, कालतोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतोऽनन्तलोकानां ये प्रदेशास्तत्तुल्यानि, द्रव्यतः सर्वजीवेभ्योऽनन्तगुणानि, तर्हि जीवराशिनैव जीवराशिगुणितो जीववर्गो भण्यते, एतावत्सङ्ख्यानि तानि भवन्ति?, नेत्याह-'जीववग्गस्स अणंतभागो'त्ति, सर्वजीवाः सद्भावतोऽनन्ता अपि
अनु.३४
Jain Education
For Private & Personel Use Only
adjainelibrary.org