________________
Jain Education
सूत्राभिप्रायतस्तु स्वकीयस्वकीयसामर्थ्येन जीवादिगत्युपष्टम्भे व्याप्रियमाणास्तस्य प्रदेशा बुद्धिपरिकल्पिता निर्विभागा भागाः पृथगेव द्रव्याणि, एवं अधर्माकाशास्तिकाययोरपि प्रत्येकं त्रयस्त्रयो भेदा वाच्या, 'अद्धासमय' इत्यत्रैकवचनं वर्तमानकालसमयस्यैव एकस्य सत्त्वादतीतानागतयोस्तु निश्चयनयमतेन विनष्टत्वानुत्पन्नत्वाभ्यामसत्त्वाद्, अत एवेह देशप्रदेशचिन्ता न कृता, एकस्मिन् समये निरंशत्वेन तदसम्भवात्, तदेवं दशविधान्यरूप्यजीवद्रव्याणि । रूप्यजीवद्रव्याणि तु स्कन्धादिभेदाच्चतुर्द्धा, तत्र स्कन्धा- द्व्यणुकादयोऽनन्ताणुकावसानाः, देशास्तु तद्विभागात्रिभागादिरूपा अवयवाः, प्रदेशाः पुनस्तदवयवभूता एवं निरंशा भागाः परमाणुपुद्गलाः स्कन्धभावमनापन्नाः एकाकिनः परमाणवः, तानि च रूपद्रव्याण्यनन्तानि कथमित्याह- 'अणता परमाणुपोग्गला' इत्यादि, एते च स्कन्धादयः प्रत्येकमनन्ताः । अथ जीवद्रव्याणि विचारयितुमाह- 'जीवदव्वाणं भंते! किं संखेज्जा' इत्यादि, यस्मान्नारकादिराशयः प्रत्येकमसङ्ख्याताः वनस्पतयः सिद्धाश्चानन्ता अतो जीवद्रव्याण्यनन्तान्येवेत्यर्थः ॥ १४४ ॥ तत्र नारकादयोऽसङ्ख्येयादिखरूपतः सामान्येन प्रोक्ता विशेषतस्तु तदसङ्ख्येयकं कियत्प्रमाणमिति न ज्ञायते, औदारिकादिशरीरविचारे च तत्परि ज्ञानं सिद्ध्यति औदारिकादिशरीरखरूपबोधश्च विनेयानां संपद्यते इति चेतसि निधाय जीवाजीवद्रव्यविचारप्रस्तावाच्छरीराणां तदुभयरूपत्वात्तानि विचारयितुमुपक्रमते
कइविहा णं भंते! सरीरा पं०१, गो० ! पंच सरीरा पण्णत्ता, तंजहा - ओरालिए वेड
For Private & Personal Use Only
jainelibrary.org